SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३६ ] [ वादमालायां न्धावच्छिन्नप्रतियोगिताकचैत्रनिष्ठस्वामित्वाभावस्य धनादावभावान्नातिप्रसङ्ग इति चेत् ? न, तस्य वृत्त्यनियामकतयाऽत्यन्ताभावप्रतियोगितानपच्छेदकत्वात् । . ननु वृत्त्यनियामकसम्बन्धस्य कथं न प्रतियोगितावच्छेदकत्वम् १ येन सम्बन्धेन यत्र प्रतियोगिग्रहे तेन सम्बन्धेन तत्र तदभावग्रहस्तस्यैव तदभावप्रतियोगितावच्छेदकत्वात् । येन सम्बन्धेन प्रतियोगिमति तदभावो नास्ति स एव प्रतियोगितावच्छेदक इत्युपगमे संयोगेन रूपाद्यभावादेरप्यसिद्धयापत्तेरिति चेत् ? न, संयोगादिना घटाभावादिप्रत्ययवनिरूपकतया स्वामित्वाद्यभावप्रत्ययविरहावृत्त्यनियामकसम्बन्धमात्रस्याभावप्रतियोगितानवच्छेदकत्वकल्पनात् । यदि च 'भूतलं न घट' इत्यादौ तादात्म्यावच्छिन्नप्रतियोगिताकत्वमानुभविकं, तत्र तादात्म्य संसर्गाविशेषितप्रतियोगितया घटविशिष्टाभावभानाभ्युपगमे 'घटो न घट' इत्यस्यापि प्रसंगात् , घटे घटात्यन्ताभावसत्त्वात् , धर्मात्यन्ताभावस्य धर्मिभेदत्वेऽपि तादात्म्यावच्छिन्नधर्मिनिष्ठप्रतियोगिताकत्वाभावाद् नातिप्रसङ्ग इति विभाव्यते, तदापि वृत्त्यनियामकसम्बन्धमात्रस्य संसर्गाभावप्रतियोगितानवच्छेदकत्वनियमो निर्वाध एव, तेन क्वचिदपि तदऽप्रत्ययात् । संयोगेन गगनाद्यभावे च गगनादिसंयोगो न प्रतियोगितावच्छेदकः, किन्तु संयोगत्वेन घटादिसंयोग एवेति न दोषः।
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy