SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३४ ] [ वादमालायां पलापप्रसङ्ग इति यत्किञ्चिदेतत् । तस्मात्ततत्प्रतिग्रहादिजन्यं, तत्तत्तदानदिनाश्यं स्वत्वमतिरिक्तमेव । एतच्च वृत्तिनियामकविशेषणताविशेषण स्वर्णादिद्रव्यनिष्टं, 'स्वर्णे स्वत्वमिति प्रत्ययात् । निरूपकत्वाख्यविशेषणताविशेषेण च स्वामिनिष्ठम् , 'अत्रास्य पुरुषस्य स्वत्वमिति प्रत्ययात् । न चैवम स्मिन् पुरुषे एतद्रव्यस्वामित्वमि'त्यादिधीः कथं स्यात् ? निरूपकतासम्बन्धस्य वृत्त्यनियामकत्वादन्यथैतस्मिन् पुरुषे एतद्र्व्यस्वत्वमितिप्रत्ययस्यापि प्रसङ्गादिति चेत् १ अत्र वदन्ति निरूपकतासम्बन्धेन स्वत्वमेव न स्वामित्वम् , अपि त्वयमस्य स्वामी त्यादिप्रतीतिसिद्धं तदपि पदार्थान्तरम् । तच्च वृत्तिनियामकविशेषणताविशेषेण स्वामिनिष्टं, निरूपकत्वाख्यविशेषणताविशेषेण च धननिष्ठमिति न दोषः । केचित्तु स्वत्वमेव स्वामित्वम् , न तु पदार्थान्तरं, निरूपकतासम्बन्धस्य वृत्यनियामकत्वेऽपि तन्निरूपकत्वस्य स्वरूपसम्बन्धेन वर्तमानत्वादेवात्र पुरुषेऽस्य द्रव्यस्य स्वामित्वमिति प्रत्ययोपपत्तेरित्याहुः। तदसत्, विनिगमकाभावात् , स्वामित्वमेव पदार्थान्तरं तन्निरूपकत्वमेव स्वत्यमिति व्यत्ययस्यापि सुवचत्व त् , । स्वत्वस्वामित्वयोः स्वामित्वस्वत्वनिरूपकतात्मकत्वे स्वस्वामिपदशक्यतावच्छेदकगौरवाद्विभिन्नतदुभयपदार्थकल्पनाया एवौचित्यादिति ।
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy