________________
स्वत्ववादः ]
[३१ रेकेण यथेष्टविनियोगाऽसम्भवनिश्चयः शास्त्राविरुद्धतदुपायविषयत्वरूपं यथेष्टविनियोगयोग्यत्वं स्वत्वम् , तदुपायानां क्रयप्रतिग्रहादीनां क्रियात्वेनास्थिरत्वेऽपि तद्विषयत्वं स्थिरमेव ज्ञाननिवृत्ताविव तद्विषयत्वम् । न चैवं यत्क्रीत्वा विक्रीतं, गृहीत्वा दत्तं, तत्रापि तद्विषयतासत्वाद्विक्रेत्रादिस्वत्वव्यवहारप्रसङ्गो, न हि क्रयाधुपायविषयत्वमात्रं योग्यता किन्तु स्वव्यतिरेकप्रयुक्तयथेष्टविनियोगाऽसम्भवनिश्चयसहकृतं, तत्र च न पूर्वक्रयव्यतिरेकप्रयुक्तो विनियोगाऽसम्भवः किन्तु विक्रयप्रयुक्त इति क्रयजनिता योग्यता विक्रयादेकस्य निवततेऽन्या त्वन्यस्योत्पद्यत इति प्रतियोगितावच्छेदकविशे. षिताऽभावभेदवत्तत्तद्वयतिरेकप्रयुक्तत्वविशेषितविनियोगाऽसम्भवनिश्चयभेदेन योग्यताभेदाभ्युपगमे दोषाभावादिति लीलावत्युपायलिखितेऽप्यास्थावन्धः क युक्तः । शास्त्राविरुद्धत्वविशेषणादाने चौर्यादिना गहीतेऽपि स्वत्वप्रसङ्गात्तदाने च शास्त्रस्यैव "परस्वं नाददीते"त्यादिरूपस्य स्वत्वाप्रतीतावप्रतीतेः । तस्मात्परस्वं नाददीतेत्यादिकं शास्त्रमेवातिरिक्तस्वत्वे प्रमाणमित्याहुः ।
तञ्च स्वत्वं प्रतिग्रहोपादान-क्रयण-पित्रादिमरणैर्जन्यते । दानादिमिश्च नाश्यते, कारणानामेकशक्तिमत्वात्कार्याणां वैजात्याद्वा कार्यकारणभावनिर्वाह इति पदार्थतत्त्वविवेककृतः। अत्र स्वत्वत्वावच्छिन्न प्रति कारणतावच्छेदकतया प्रतिग्रहादि