________________
विशेषवाद: ]
[his
संयोगी न तु शाखायामिति । ततः स्यात्सामान्यमेकं स्यादने- ' कमित्यनेकान्त एव कान्तः ।
[सामान्यवादः समाप्नः ] ३-विशेषवादः
विशेषो नित्यो नित्यद्रव्यवृत्तिः पदार्थान्तरमिति नैया' यिकाः तदसत् तत्र प्रमाणाभावात् । नचात्यन्तसजातीयानां नित्यद्रव्याणां परस्परभेदग्रहो न विशेषं विनेति तरिसडि:, योगिनां तद्भेदग्रहे व्यावर्त्तकधर्मदर्शनस्याऽहेतुत्वात् ।
न च 'समवायित्वे सति समवायियद्व्यक्तेर्यद्वयावृत्तं तत्तदसमवेतसमवेतशून्यधर्मसमवायी' ति व्याप्तेर्घटपटादाव वधारणात् सजातीयनित्यद्रव्यद्वये परस्पराऽसमवेतसमवेतशून्यधर्मसिद्धावर्थाद्विशेषसिद्धि: । अत्र द्रव्यत्वादिभिः सिद्धसाधनवारणाय ' तदसमवेति' ति. एकत्वादिभिस्तद्वारणाय 'समवेत शून्ये' ति । अभावव्यक्तिभिस्तद्वारणाय समवायी' ति । अभावे व्यभिचारवारणाय हेतौ 'समवायित्वे सत्ती' ति । घटादावभावव्यावृत्तिसच्वेनाभावसमवेतत्वाऽप्रसिद्धया व्याप्यत्वाऽसिद्धिः स्यादिति 'समवायी' ति । नोपादेयमेव वा तत् साध्ये तदसमवेतत्वं परित्यज्य स्वाऽसमवायितत्कत्वस्य निवेशनीयत्वादिति चेत् १
न, सजातीयघटद्वये व्यभिचारात् स्वाश्रयसमवेतसमवेतत्वादिघटितपरंपरा सम्बन्धेन साध्यत्वं विशेषमादाय तत्रापि
"