SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००6860000000618004006046000 नष्टे च परमाणोः स्वीकार्यः स्यादेव चोत्पादः । परैरपि परमाणूनां नित्यताङ गीकारात् । ननु स्कन्धत्वापत्तावपि परमाणुतेति महच्चित्रमितिचेत्, चित्रमेतन्महत्तममेव, किन्तु द्रव्यपर्यायस्वरूपमविदुषां, तद्विदुषांतु परिमाणत्वेन कथञ्चिन्नाशभावस्य द्रव्यत्वेन रूपेण चानाशभावस्याभिगमान्न चित्रलेशोऽपि । अत एव 'भेदादणु रिति परमर्षिवाक्यमपि । गुणपर्याययोरपि संविद्विषयत्वेनानुसन्धेयैवानेकान्तात्मकता । यतो रक्तत्वनाशे रक्तत्वेन रक्तिमा नष्टा, नतु गुणत्वेन । गुणा. स्त्वन्ये सन्त्येव । एवं घटपर्यायनाशेऽप्यन्यकपालादिपर्यायभावोऽरत्ये. वेति ततश्च सिद्ध द्रव्यपर्यायोभयाद्यपेक्षयाऽ नेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एवं प्रमाणानां निरूप्य विषयं नयानां तं वक्तकामा आहुः-'एकदेशविशिष्टोर्थो नयस्य विषयो मत' इति । ननुच प्रमाणानां लक्षणोक्तौ प्रयोजनं तद्व्यामोहनिवृत्तिः स्याव्यामूढमनसामिहे'ति प्रतिज्ञावाक्यात प्रमाणलक्षणमेव वक्त युक्तमनूचानानाम्, न तु तदोषवादोपयोगिता प्रमाणफलविषयादि, किगुत नयतद्विषयादि, प्रतिज्ञाविरोधात्, सति च तस्मिन् स्पष्टमेव निग्रहस्थानमिति चेत्, न, प्रमाणानामित्यनेन करणानडन्तेन प्रपूर्वकेन सकर्मकत्वाद् भावाभिधायिना समग्रमेतत् प्रतिज्ञातमेव, दध्यानयननोदनाप्राप्ततद्भाजननोदनावत् । नहि तदोषेष्वनिरूपितेषु तदाभासरहितं तज्ज्ञायते । न च दूषणाभासज्ञानाभावे झायन्ते सम्यग्दूषणानि । यद्वा-न दूषणाधज्ञाने सम्यक्परीक्ष्येत प्रमाणलक्षणम् । न च निष्फला प्रवृत्तिः प्रेक्षावताम्। यद्वा-प्रमाणनिरूपणाद् व्यामोहनिवृत्तिज्ञापन फलतया युक्तमेव, प्रकरणस्योपायताज्ञापनात् । विषयज्ञापनं तु न कथ - चनापि योग्यतामतिकामति । तदन्तरेण प्रमाणोद्भवस्यैवाभावात् । कर्म चैषः । एवमेव च प्रमातापि निरूपयिष्यमाणोऽबसेयः प्रतिज्ञात एव, कर्त्तत्वात्तस्य । नन्वस्तु सर्वेषामेवां निरूपणमुक्तन्यायेन प्रतिज्ञातम्, परं नयादिना नार्थोऽप्रतिज्ञातेनेतिचेत् । न तेषामपि प्रमाण
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy