SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० न्वितं च वस्तु गोचरीक्रियते । नहि प्रत्यक्षाद्यन्यतमेन ज्ञाते वस्तुनि स्वपरधर्मयोः सत्त्वासत्त्वभानं नास्ति । यद्वा-न केवलं द्रव्यमीक्ष्यते समीक्षानिपुणैरीक्षणैः, केवला: पर्याया अपि च न । यतो यद्यद् घटपटादि प्रेक्ष्यते चक्षुरादिना, ततत् सर्व मृदादिद्रव्य-घटादिपर्यायाव्यतिरिक्तमेव । नहि मृत्स्नामपहाय पृथग्घटो, न वा घटवमपहाय मृत्स्नापि सा पृथग निभाल्यते सुविदुषापि । न च वाच्यं चेन्मृत्तिका सती तर्हि कुर्यात् स्वकार्य शरावोदञ्चनादि, न च तद्भवद्विलोक्यते इति । नहि नियमोऽस्ति यद् या या मृत्तिका सा सा कुर्याच्छरावोदञ्चनादि । अखातायास्तस्यास्तदभवनस्य प्रत्यक्षदर्शनात् । अन्यच्च-पर्यायाः क्रमभाविन इति न युगपत्पर्यायद्वयं सम्भवति । घटत्वं शरावत्वं च पर्यायावेव । अन्यच्च-नासौ मृत्तदा मार्तिकोयमिति व्यपदेशः शीतलत्वं जलशीतीकारश्च तस्य कथङ्कारं सम्पद्यन्ते ?, नहि ते घटधर्माः, तथा सति राजतादिकुम्भेष्वपि तदुपलब्धिप्रसङ्गात् । किञ्च-मृत्तिकानाशा. दिवत् सौवर्णकलशादौ नष्टं सुवर्णमपि स्यात्। तथा च न भवतां देवानां प्रियाणामिव मार्तिकघट-सौवर्णघटयोः कश्चिदप्यन्तरं जाज्ञायीत । नच ऽऽभूषणान्यपि सौवर्णानि दारिद्यदशायामुपयोगितामिययः, सुवर्णस्य नष्टत्वाद् भवन्मते । न चाभूषणभङ्गमात्रेण कनकोपलम्भोऽपीतकनकनाम् । तदङ्गीकार्यमेव यद् घटादिदशायां तत् सुवर्णमृदायस्त्येव । एवमेव घटत्वाद्याकाररूपाः पर्याया अपि न प्रत्यक्षविषयं न जङ्गम्यन्ते । न च ते भिन्नाः । तथा सति तेषामुत्पादविनाशाऽभाव एव प्रसज्येत । यतो नहि क्रियाकृत चर्करोति कदाप्यद्रव्ये घटोत्पादक्रियां तन्नाशक्रियां वा । किन्तु द्रव्यस्यैव तथा तथा परिणामः । अत एव च प्रत्यभिज्ञायते प्रतिभामरैर्यदुत-तस्या दृषपूर्वाया मृत्तिकाया अयम् । यद्वा-तद्दष्टपूर्वमेव सुवर्णमिदमाभूषणीभूतम् । तद्वन्नाशेऽपि वस्तुनः स एव घंटो योऽयं कपालीभूतस्तदेव चाभूषणमिदं सुवर्णीभूतमिति । नन्वेवं द्रव्यपर्यायोभयात्मके वस्तुनि कथं पर्यायस्य नाशो द्रव्यस्य च
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy