SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 5 णमोत्थु र्ण समणस्स भगवओ महावीरस्स फ्र आगमोद्धारक- आचार्यश्रीआनन्द सागर सूरिनिर्मितदीपिकाविभूषितः तार्किकमूर्धन्य श्रीसिद्धसेन दिवाकरप्रणीतः न्यायावतार: । नत्वा नतसुरश्रणिं प्रमाणनयदेशकम् । सार्वजिनं यते न्याया - वतारं स्फुटितु धिया ॥ १ ॥ , प्रमाणतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते । प्रमाणं-निर्दिश्यमानस्वरूपं तस्य तत्वमसाधारणं स्वरूपं तस्य व्यवस्थापनं युक्त्या निर्णीय स्वरूपोपदर्शनं तस्मै, इदं सुदृढानुभवास्पदतयान्तर्यथाघस्थिततया स्थितं प्रमाणतत्त्वं, उपक्रम्यते- शास्त्ररूपेण बहिः प्रकाशयितुमारभ्यते इत्युपोद्घातः । प्रयोजनाभिधेयसम्बन्धप्रदर्शनपरः । मङ्गलं तु प्रमाणस्य ज्ञानात्मकत्वाज्ज्ञानस्य च 'जं अन्नाणी' त्यादिवाक्यात् निर्जरार्थकत्वात् प्रमाणशब्देनोपात्तमेव प्रतिबन्ध विघातस्यैव मङ्गलार्थत्वात् । यद्वा-प्रशब्द एव मङ्गलप्रकर्षार्थित्वेन तस्य भद्राद्यन्तर्गतत्वात् भद्रादीनां च 'ये च भद्रादिवाचका' इत्यनेन मङ्गलार्थ'त्वानुस्मरणात् । अथ प्रमाणस्य स्वरूपं भेदौ चाह प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्वयात् ॥१॥
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy