SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २४ श्रीविद्यानंदिस्वामिविरचिता मास्तैरेव तस्य परिणामित्वं । परमाणोश्च स्वारंभकावयवाभावेऽपि सप्रदेशत्वप्रसंगो नानिष्टापत्तये नैयायिकानां । परमाण्वंतरसंयोगनिबंधनस्यैकस्य प्रदेशस्य परमाणोर पीष्टत्वात् । न चोपचरितप्रदेशप्रतिज्ञा आत्मादिष्वेवं विरुद्धयते स्वारंभकावयवलक्षणानां प्रदेशानां तत्रोपचरितत्वप्रतिज्ञानात् । मूर्तिमद्रव्यसंयोगनिबंधनानां तु तेषां पारमार्थिकत्वात् अन्यथा सर्वमूर्तिमद्र्व्यसंयोगानां युगपद्भाविनामुपचरितत्वप्रसंगात् विभुद्रव्याणां सर्वगतत्वमप्युपचरितं स्यात् । परमाणोश्च परमाण्वंतरसंयोगस्य पारमार्थिकासिद्धद्वर्यणुकादिकार्यद्रव्यमपारमार्थिकमासज्येत । कारणस्योपचरितत्वे कार्यस्यानुपचरितत्वायोगादिति केचित्प्रचक्ष्यते । तेऽपि स्याद्वादिमतमंसिर्पविलप्रवेशन्यायेनानुसरंतोऽपि नेश्वरस्य निमित्तकारणत्वं तन्वादिकार्योत्पत्तौ समर्थयितुमीशते । तथाहि तदन्वयव्यतिरेकानुविधानस्य साधयितुमशक्यत्वादात्मांतरान्वयव्यतिरेकानुविधानवत् । यथैव ह्यात्मांतराणि तन्वादिकार्योत्पत्तौ न निमित्तकारणानि तेषु सत्सु भावादन्वयसिद्धावपि तच्छन्ये च देशे क्वचिदपि तन्वादिकार्यानुत्पत्तेर्व्यतिरेकसिद्धावपि च । तथेश्वरे सत्येव तन्वादिकार्योत्पत्तेस्तच्छ्न्ये प्रदेशे क्वचिदपि तदनुत्पत्तेस्तच्छ्न्यस्य प्रदेशस्यैवाभावादन्वयव्यतिरेकसिद्धावपीश्वरो निमित्तकारणं माभूत् सर्वथा विशेषाभावात् । स्यान्मतं महेश्वरस्य बुद्धिमत्त्वात् समस्तकारकपरिज्ञानयोगात्तत्प्रयोक्तृत्वलक्षणं निमित्तकारणत्वं तन्वादिकार्योत्पत्तौ व्यवतिष्ठते । न पुनरात्मांतराणामज्ञत्वात्तल्लक्षणनिमित्तकारणत्वाघटनादिति । तदपि न समीचीनं सर्वज्ञस्य समस्तकारकप्रयोक्तृत्वासिद्धेः योग्यंतरवत् । न हि योग्यंतराणां सर्वज्ञत्वेऽपि समस्तकारकप्रयोक्तृत्वमिष्यते । ननु तेषां समस्तपदार्थज्ञानस्यांत्यस्य योगाभ्यासविशेषजन्मनः सद्भावे सकलमिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखपरिक्षयात्परमनिःश्रेयससिद्धेः सम
SR No.022436
Book TitleAaptpariksha
Original Sutra AuthorN/A
AuthorVidyanandswami
PublisherJain Sahitya Prasarak Karyalay
Publication Year
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy