SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आप्तपरीक्षा। र्थस्यैकस्यासिद्धेश्च । पृथिव्यादिषु हि द्रव्यमिति संज्ञा द्रव्यत्वसामान्यसंबंधनिमित्ता। तत्र द्रव्यत्वमेकं न द्रव्यं किंचिदेकमस्ति । द्रव्यलक्षणमेकमिति चेत् तत्किमिदानी द्रव्यपदार्थोऽस्तु ? न चैतद्युक्तं लक्ष्यस्य द्रव्यस्याभावे तल्लक्षणानुपपत्तेः । पृथिव्यादीनि लक्ष्याणि क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणं यदि प्रतिज्ञायते, तदानेकत्र लक्ष्ये लक्षणं कथमेकमेव प्रयुज्यते प्रतिव्यक्तिभेदात् । न हि यदेव पृथिव्यां द्रव्यलक्षणं तदेवोदकादिष्वस्ति तस्यासाधारणरूपत्वात् । यदि "पुनद्रव्यलक्षणं पृथिव्यादीनां गुणादिभ्यो व्यवच्छेदकतया तावदसाधारणो धर्मःपृथिव्यादिषु नवस्वपि सद्भावात्साधारणः कथमन्यथातिव्याप्त्यव्याप्ती लक्षणस्य निराक्रियते। सकललक्ष्यवस्तुषु हि व्यापकस्य लक्षणस्याव्याप्तिपरिहारस्तदलक्ष्येभ्यश्च व्यावृत्तस्यातिव्याप्तिपरिहारः सकलैर्लक्ष्यलक्षणज्ञैरभिधीयते नान्यथेति" मतिः, तदापि नैको द्रव्यपदार्थः सिद्धयति । द्रव्यलक्षणादन्यस्य लक्ष्यस्य द्रव्यस्यैकस्यासंभवात्। "नवापि पृथिव्यादीनि द्रव्याण्येकलक्षणयोगादेको द्रव्यपदार्थ" इति चेन्न, तथोपचारमात्रप्रसगात् । पुरुषो यष्टिरिति, यथा यष्टिसाहचर्याद्धि पुरुषो यष्टिरिति कथ्यते न पुनः स्वयं यष्टिरित्युपचारः प्रसिद्ध एव तथा पृथिव्यादिरनेकोऽपि स्वयमेकलक्षणयोगादेक उपचर्यते न तु स्वयमेक इत्यायातं । न च लक्षणमप्येकं पृथिव्यादिषु पंचसु क्रियावत्स्वेव क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणस्य भावात् निःक्रियेष्वाकाशकालदिगात्मसु क्रियावत्त्वस्याभावात् । गुणवत्समवायिकारणमित्येतावन्मात्रस्य ततोऽन्यस्य द्रव्यलक्षणस्य सद्भावात् लक्षणद्वयस्य प्रसिद्धेः । तथा च द्रव्यलक्षणद्वययोगात् द्वावेव द्रव्यपदार्थों स्यातां । यदि पुनर्द्वयोरपि द्रव्यलक्षणयोर्द्रव्यलक्षणत्वाविशेषादेकं द्रव्यलक्षणमित्युच्यते तदापि किं तद्र्व्यलक्षण
SR No.022436
Book TitleAaptpariksha
Original Sutra AuthorN/A
AuthorVidyanandswami
PublisherJain Sahitya Prasarak Karyalay
Publication Year
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy