SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ८ अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ९ स्वावरणक्षयोपशमलक्षणयोग्यता हि प्रतिनियतमर्थ व्यवस्थापयति १० कारणस्यच परिच्छेद्यत्वे करणादिना व्यभिचारः ११ सामिप्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् १२ सावरणत्वे करणजन्यत्वे च प्रतिबन्धसंभवात् तृतीयसमुद्देश. १ परोक्षमितरत् २ प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्वानुमानागमभेदम् ३ संस्कारोद्बोधनिबन्धना तदित्याकारा स्मृतिः ४ सदेवदत्तो यथा ५ दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि. ६ यथा स एवायं देवदत्तः, गो सदृशो गवयः, गो विलक्षणो महिषः, इदमस्माहूरम्, वृक्षोयमित्यादिः, ७ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः इदमस्मिन्सत्येव भवत्यसति न भवत्येवेति च ८ यथामावेव धूमस्तदाभावे न भवत्येवेतिच ९ साधनात्साध्यविज्ञानमनुमानम् १० साध्याविनाभावित्वेन निश्चितो हेतुः ११ सहक्रमभावनियमोऽविनाभावः १२ सहचारिणोप्प्यव्यापकयोश्च सहभावः १३ पूवोत्तरचारिणोः कार्यकारणयोश्चक्रमभावः १४ तर्कात्तनिर्णयः १५ इष्टमबाधितमसिद्ध साध्यम् १६ संदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथास्यादित्यसिद्धपदम् १७ अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं माभूदितीष्टाबाधितवचनम्
SR No.022432
Book TitlePramey Ratnamala Vachanika
Original Sutra AuthorN/A
AuthorJaychand Chhavda
PublisherAnantkirti Granthmala Samiti
Publication Year
Total Pages252
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy