SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ शब्दब्रह्मविदोऽपि शब्दनयतः सर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुवीक्ष्यते ।।६।। ऊष्मा नार्कमपाकरोति दहनं नैव स्फुलिङ्गावली, नाब्धि सिन्धुजलप्लवः सुरगिरि ग्रावा न चाभ्यापतन् । एवं सर्वनयैकभावगरिमस्थानं जिनेन्द्रागम, तत्तद्दर्शनसङ्कथांशरचनारूपा न हन्तुं क्षमा ॥ ७ ॥ दुःसाध्यं परवादिनां परमतक्षेपं विना स्वं मतं, तत्क्षेपे च कषायपङ्ककलुषं चेतः समापद्यते ॥ सोऽयं निःस्वनिधिग्रहव्यवसितो वेतालकोपक्रमो, नायं सर्वहितावहे जिनमते तत्त्वप्रसिद्धयर्थिनाम् ।।८।। ___ वार्ताः सन्ति सहस्रशः प्रतिमतं ज्ञानांशबद्धक्रमाश्वेतस्तासु न नः प्रयाति नितमां लीनं जिनेन्द्रागमे ।। नोत्सर्पन्ति लताः कति प्रतिदिशं पुष्पैःपवित्रा मधौ, ताभ्यो नैति रति रसालकलिकारक्तस्तु पुंस्कोकिलः ।। शब्दोवामतिरर्थ एव वसु वा जातिः क्रिया वा गुणः, शब्दार्थः किमिति स्थिता प्रतिमतं सन्देहशङ्कव्यथा। जैनेन्द्रे तु मते न सा प्रतिपदं जात्यन्तरार्थस्थितेः, सामान्यं च विशेषमेव च यथा तात्पर्यमन्विच्छति।१०। यत्रानर्पितमादधाति गुणतां मुख्यं तु वस्त्वर्पितं, तात्पर्यानवलम्बनेन तु भवेद्बोधः स्फुट लौकिकः ॥
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy