SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ( ५५ ) साधीयः प्रमाणम् , नवा तदभ्युपगमेनापि तस्य सर्वज्ञत्वम्, उपादानमात्रज्ञानसिद्धावप्यतिरिक्तज्ञानासिद्धेः, कारणाभावात् , मानाभावाचेति दिग्। तथा चाहुायाचार्याः, " सन्तुष्य नैयायिकमुख्य ? तस्मा-दस्माकमेवाऽऽश्रय पक्षमय्यम् ॥ तवोचकैरीश्वरकर्तृताया, मनोरथं सम्प्रति पूरयामः॥१॥ नयैः परानप्यनुकूलवृत्ती, प्रवर्तयत्येव जिनो विनोदे। उक्तानुवादेन पिता हिताकि, बालस्य नालस्यमपाकरोति ॥२॥" तदिदमाहुः दुषमासमान्धकारतिरस्कारतरणिकल्पा:श्रीहरिभद्रसूरयः॥ ततश्चेश्वरकर्तृत्व-वादोऽयं युज्यते परम् ॥ सम्यग्न्यायाविरोधेन, यथाहुः शुद्धबुद्धयः॥१॥ अस्यायमर्थः-ततश्च वैशेषिकादीनां मतनिरासाच्च, अयं-तथाविधलोकप्रसिद्धः, ईश्वरकर्तृत्ववादः, परं उक्त विपरीतरीत्या, सम्यग्न्यायाविरोधेन-प्रतितर्काप्रतिहतत र्कानुसारेण, शुद्धबुद्धयः परमर्षय आहुः॥१॥ तथा हि__" ईश्वरः परमात्मैव, तदुक्तव्रतसेवनात् ॥ यतो मुक्तिस्ततस्तस्याः, कर्ता स्याद् गुणभावतः॥२॥ तदनासेवनादेव, यत्संसारोऽपि तत्त्वतः ॥ तेन तस्यापि कर्तृत्वं, कल्प्यमानं न दुष्यति ॥३॥ कायमिति तद्वाक्ये, यतः केषाश्चिदादरः॥ अतस्तदानुगुण्येन, तस्य कर्तृत्वदेशना ॥४॥ परमैश्वर्ययुक्तत्वा-न्मत आत्मैव वेश्वरः॥ स च कर्तेति निर्दोषः, कर्तृवादो व्यवस्थितः ॥५॥
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy