SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ( ४३ ) अन्यथा एवमुत्तरकालोपस्थितबाधकस्यापि दूषकत्वस्वीकारे नित्यज्ञानादिकल्पनागौरवादिबाधकेन क्लप्तोऽपीश्वरस्त्यज्यता. मिति " पुत्रलिप्सया देवं भजन्त्या भापि नष्टः" इति न्या. यादू महदनिष्टमापतितम् । एतेन "पुरेषु पुरेशानामिव जगदी. शज्ञानेच्छादित एव तत्कार्याणां स्वल्पतमाऽधम-देश-कालादिनियमः, वदन्ति हि पामरा अपि-" ईश्वरेच्छैव नियामिका" इति, न चैवं तत्तद्देश-काल-नियततत्तत्कार्योत्पत्तिज्ञानादित एव तत्तत्कार्यनिर्वाहे गतं दण्डादिकारणत्वेनेति वाच्यं, तदनुमतत्वेनैव दण्डादीनां घटादिहेतुत्वात् । नहि दण्डादिरेव घटादेरनन्यथासिद्धनियतपूर्ववर्ती, न वेमादि, कपालादिसमवायि न तन्त्वादिकम् , इत्यत्राऽन्यद् नियामक पश्यामः, इति तदनुमत्यादिकमेव । तथा च तदनुमत्यादिकं न साक्षात् , किन्तु तत्तत्कारणद्वारा तत्तत्सम्पादकम् । नहि राजाज्ञादितो विनांशुकं तन्त्वादि,विना तन्त्वादिकं पटादि" इति पामराशयानुसरणसङ्क्रान्तं पामरभावानां मतमपास्तम् , राजाज्ञादितुल्यतयेश्वरेच्छाया अहेतुत्वात् , सामग्रीसिद्धस्य नियतदेश-कालत्वस्य तज्जन्यताघटकतया तदनियम्यत्वात् , अन्यथा तत्कालावच्छिन्नतद्घटावच्छिन्नविशेष्यतयोपादाननिष्ठतयोपादानप्रत्यक्षादित्रयहेतुताकल्पने गौरवात् , समवेतत्वसम्बन्धेनेश्वरीयत्वेन तत्तत्त्रयानुगमेऽप्यसंसार्यात्मत्वलक्षणेश्वरत्वनिवेशे गौरवात् , प्रत्येकमादाय विनिगमनाविरहाच । तकालावच्छिन्नतद्घटावच्छिन्नत्वसम्बन्धेन नियतेरेव हेतुत्व
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy