SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ( ४१ ) कृतेरपि स्वप्रयोज्यकपालद्वयसंयोगसम्बन्धेनैव हेतुत्वे बाधकाभावात् । न च विशेष्यत्वापेक्षया स्वप्रयोज्यकपालद्वयसं. योगसम्बन्धेन हेतुत्वे गौरवमिति वाच्यं, घटत्वावच्छिन्ने विजातीयकृतित्वेनैव हेतुत्वादिति दिक् ॥ किञ्च उपादानप्रत्यक्षस्य लौकिकस्यैव हेतुत्वात् कथमीश्वरे तत्सिद्धिः, अपि च प्रणिधानाद्यर्थ मनोवहननाडयादौ प्रवृत्तिस्वीकाराद् यद्धर्मावच्छिन्ने यदर्थिप्रवृत्तिः तद्धर्मावच्छिन्ने तत्प्रकारकज्ञानमात्रस्य हेतुत्वात् कथमुदानप्रत्यक्षमीश्वरस्य । ननु तस्यानुमितित्वे जन्यानुमितित्वं व्याप्तिज्ञानजन्यतावच्छेदकमिति गौरवदोषात्तस्य प्रत्यक्षत्वमिति चेत् , न, प्रत्यक्षत्वेऽपि जन्यप्रत्यक्षत्वस्यैवेन्द्रियादिजन्यतावच्छेदकत्वकल्पनायाः तदवस्थत्वात् । अपि च तदुपादानप्रत्यक्षं निराश्रयमेवाऽस्तु, दृष्टविपरीतकल्पनभिया तु नित्यज्ञानादिकमपि कथं कल्पनीयमित्युक्तमेव । किञ्च तदुपादनप्रत्यक्षं यदि नित्यं व्यापकञ्च तदा तदेवाचेतनपदार्थाधिष्ठातृ भविष्यति, इति किमपरतदाधारेश्वरपरिकल्पनया। किश्च एवं नानात्मस्वेव व्यासज्यवृत्ति तत्कल्प्यताम् । स्वाश्रयसंयुक्तसंयोगसम्बन्धेन तेषु तत्कल्पनापेक्षया समवायेन व्यासज्यवृत्तितत्कल्पनाया एव भवतांन्याय्यत्वात् । नचैवं घटादिभ्रमोच्छेदापत्तिर्वाधबुद्धिसत्वादिति वाच्यं, बाधबुद्धिप्रतिबन्धकतायां चैत्रीयत्वस्यावश्यंनिवेश्यत्वेन तच्च समवेतत्वसम्बन्धेन चैत्रवत्त्वं,पर्याप्तत्वेन वा,इति न किश्चिद्वैषम्यम्। अपि च " देवताः संनिधानेन, प्रत्यभिज्ञानतोऽपि वा" इति
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy