________________
( ३६ ) महाप्रभुतन्त्रा दृष्टाः, यथा सामन्तमाण्डलिकादयः एकचक्रवर्तितन्त्राः, प्रभवश्चैते नानाचक्रवर्तीन्द्रादयः तस्मादेकमहाप्रभुतन्त्रा एव, योऽसौ महाप्रभुः स महेश्वर इत्येकेश्वरसिद्धिः। स च स्वदेहनिर्माणकरोऽन्यदेहिनां निग्रहानुग्रहकरत्वात् , यो योऽन्यदेहिनां निग्रहानुग्रहकरः स स स्वदेहनिर्माणकरो दृष्टो यथा राजा, तथा चायमन्यदेहिनां निग्रहानुग्रहकरः, तस्मात्स्वदेहनिर्माणकर इति सिद्धम्" इत्याहुः, तदपि न सम्यक, विकल्पासहत्वात् , विकल्पासहत्वं च यथा स महेशो देहान्तरं विना स्वदेहं जनयेद् , उत देहान्तरेण ? । न तावदेहान्तराद् विना, तथा सति निग्रहानुग्रहलक्षणकार्यस्यापि तथैव जनने देहाधानमनर्थकम् । यदि पुनर्देहान्तरादेव स्वदेहं विदधीत तदा तदपि देहान्तरमन्यस्मादेहान्तरादिति गगनावलम्बिनी अनवस्थालता प्रसरमाप्नुयात् ,तथा चापरापरदेहनिर्माण एवो. पक्षीणशक्तिकत्वाद् न कदाचिदपि प्रकृतं कार्य कुर्यादीश्वरः ।
किञ्च पूर्वपूर्वस्वशरीरेणोत्तरोचरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसारिणां तथाप्रसिद्धेरीश्वरकल्पनस्यानर्थक्यं स्यात् , तथा च स्वोपभोग्यभवनाद्युत्पत्तावपि निमित्तकारणत्वोपपत्तेन कार्यत्वाचेतनोपादानत्वसनिवेशविशिष्टत्वहेतवो गमकाः स्युः, कथं वाऽपाणिपादत्वप्रतिपादक एवाऽऽगमः प्रदेशान्तर ईश्वरस्य वेदादिप्रणिनीषया ब्रह्मादिशरीरपरिग्रहं प्रतिपादयद्भिः स्वाङ्गैरेव न विरुध्यात् । किश्च तस्य महेश्वरस्य परप्रेरणे प्रयोजनाभावः, वीतरागत्वेन कृतकृत्यत्वात् । यो