________________
( ३१ ) नाद्यव्यापनात् । इष्टानिष्टप्राप्तिपरिहारफलत्वमपि एवं कर्तारं प्रत्यन्यं प्रति वा ? उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः । भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापाराऽपेक्षणाच्च । शरीरसमवायिक्रियात्वमिति चेत् , न, मृतशरीरक्रियायां चेतनव्यापारानपेक्षणात् , जीवत एव इति चेत्, न, नेत्रस्पन्दादेरतथात्वात् । स्पर्शवद्रव्यान्तराप्रेरणे सति शरीरक्रियात्वं तत्, शरीरक्रियोपादानाद् ज्वलनपवनादिक्रियायामतिव्याप्त्यभाव इति चेत् , न, शरीरत्वस्य चेष्टाघटितत्वात् । चेष्टात्वं क्रियाविशेष एव यत उनीयते प्रयत्नपूर्विकेयं क्रियेति चेत् , क्रियामात्रेणैव तदुन्नयनात् ॥ एवं धृतेरपि, ब्रह्माण्डादिपतनाभावः पतनप्रतिबन्धकप्रयत्नप्रयुक्तो धृतित्वाद् उत्पतत्पतत्रिपतनाभाववत् , तत्पतत्रिसंयुक्ततृणादिधृतिवद् वा । एतेनेन्द्रा-ऽग्नि-यमादिलोकपालप्रतिपादका आगमा अपि व्याख्याताः, तेषां तदधिष्ठानदेशानामीश्वरावेशेनैव पतनाभाववत्त्वात् , तथा च श्रुतिः " एतस्य चाक्षरस्य प्रशासने गार्गी द्यावापृथीवी विधृते तिष्ठतः" इति ।। प्रशासन-दण्डभूतःप्रयत्ना, आवेशस्तच्छरीरावच्छिन्नप्रयत्नवत्त्वमेव, सर्वावेशनिबन्धन एव च सर्वतादात्म्यव्यवहार इति ॥"आत्मैवेदं सर्वम् , ब्रह्मवेदं सर्वम्" इत्यादिकम् ।। आदिना नाशादपि, तथाहि, ब्रह्माण्डनाशः प्रयत्नजन्यः नाशत्वात् पाट्यमानपटनाशवदिति ॥ पदादपि-पद्यते गम्यतेऽनेनेति पदं व्यवहारः, ततः, घटादिव्यवहारः स्वतन्त्र