SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ( १७ ) पगमवाधकस्य सद्भावान तस्या अक्षणिकत्वमिति चेत्, न, भूभूधरादीनामपि बुद्धिमनिमित्तकत्वाभ्युपगमबाधकस्य समानत्वात् , तथा हि भूभूधरादिर्यदि बुद्धिमनिमित्तकः स्यात्तदा शरीरवन्निमित्तकोऽपि स्यात् , तनिमित्तकत्वं तु तस्यानुपलम्भान्न स्वीकर्तव्यम् । किञ्च बुद्धेः क्षणिकत्वसाधकानुमानस्यानेकदोषदुष्टत्वम् , तच्च ग्रन्थगौरवभयादिह न प्रपञ्च्यते । किश्च यदि बुद्धित्वेन समानत्वेऽपि महेशास्मदादिबुद्ध्योरयमक्षणिकत्वक्षणिकत्वलक्षणो विशेषः स्यात्तदा भूरुहघटादिकार्ययोरप्यक-कतपूर्वकत्वलक्षणोऽपि विशेषः कस्मान स्यात् इति पुनरपि तदेवानैकान्तिकत्वदूषणं कार्यत्वहेतोः । तदेवं बुद्धिमत्कारणपूर्वकत्वलक्षणे साध्ये मतुवर्थासम्भवात् तन्वादीनामनेकधा प्रमाणबाधासम्भवाच्च शास्त्रव्याख्यानादिलिङ्गानुमीयमानपाण्डित्यगुणस्य देवदत्तस्य मूर्खत्वस्वरूपे साध्येऽनुमानबाधितकर्मनिर्देशानन्तरप्रयुक्तस्य कार्यत्वलक्षणस्य हेतोः कालात्ययापदिष्टत्वेन तत्पुत्रत्वादेरिवागमकत्वम् , अनुमानबाधितत्वं वा पक्षस्येति । किञ्च किंनाम कार्यत्वं-स्वकारणसत्तासमवायः, स्यादभूत्वाभावित्वम् , अक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वं, कारणव्यापारानुविधायित्वं वा स्याद् गत्यन्तराभावात् । तत्र यदि प्रथमपक्षस्तदा योगिनामशेषकर्मक्षये पक्षान्तःपातिनि हेतोः कार्यत्वलक्षणस्याप्रवृत्तेर्भागासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy