________________
( १४ ) त्वमिति चेत् , ईश्वरस्यापि नित्य-व्यापकत्वाभ्युपगमेनेश्वरेऽपि व्यतिरेकाभावः सिद्ध एव, इति न किश्चिदेतत् ॥ ननु महेशे तत्समवायात् तत्रैव तस्या वर्त्तनं नाकाशादाविति चेत् , तत्र तस्या व्याया समवायेन वर्त्तनं उताऽव्याप्त्या, यदि व्याप्त्या तदास्मदादिज्ञानवैलक्षण्यं यथा तज्ज्ञानस्यादृष्टस्यापि कल्प्यते तथाऽदृष्टकर्तृकेषु तनुभुवनादिषु घटादौ कर्म-कर्तृ-करणनिर्वयं कार्यत्वमुपलब्धमपि बुद्धिमनिमित्ताभावेऽपि भविष्यतीति तनुभुवनादौ बुद्धिमनिमित्ताभावे वर्तमानस्य कार्यत्वहेतोरनैकान्तिकत्वमिति लाभमिच्छतो मूलक्षतिरायाता । अथ अव्याप्त्या तत् तत्र वर्तते, तदा देशान्तरोत्पत्तिमत्सु तन्वादिषु तस्यासन्निधानेऽपि यथा व्यापारस्तथाऽदृष्टस्याप्यग्न्यादिदेशेष्वसन्निहितस्यापि ऊर्ध्वज्वलनादिविषयो व्यापारो भविष्यतीति “अग्नरूद्धज्वलनम् , वायोस्तिर्यक् पवनम् , अणु-मनसोश्चाद्यं कर्माऽदृष्टकारितम्।" इत्यनेन सूत्रेण सर्वगतात्मसाधकहेतुसूचनं यत् कृतं तदसङ्गतं स्यात् , ज्ञानादिवददृष्टस्यापि तत्रासन्निहिताग्न्यायूद्धज्वलनादिकार्येषु व्यापारसम्भवात् । न च सामान्यविशेषगुणत्वलक्षणो विशेषो गुणगुणिनोर्मेंदे सम्भवति, किश्च समवायस्य सर्वत्राविशेषे " तत्रेव तेन तस्य वर्त्तनं नान्यत्र" इति स्वकल्पनाशिल्पिविनिर्मितमेव । किश्चात्यन्तभेदे तस्यैव तदिति सम्बन्धानुपपत्तेः । नन्वत्यन्तभेदेऽपि समवायरूपसम्बन्धस्य सत्वेन नायं दोष इति चेत्, न, तस्यापि भेदे पूर्वोक्तदोषा