SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ( १० ) देशकृतव्यतिरेकानुपपत्तेः । यदि हि यद्देशा सिसृक्षा तद्देशमेव कार्यजन्म नान्यदेशमिति व्यवस्था स्यात्तदा देशतो व्यतिरेकसिद्धिः स्यान्नान्यथेति तदिच्छाया न व्यतिकोपलम्भो महेश्वरवत् । व्यतिरेकाभावे चान्वयनिश्चयोऽपि कर्तुमशक्यः, सति महेशे तन्वादिकार्योत्पाद इत्यन्वयो हि पुरुषान्तरेष्वपि समानः तेष्वपि सत्सु तन्वादिकार्योत्पत्तेः सिद्धत्वात् । न च तेषां सर्वकार्योत्पत्तौ निमित्तककारणत्वं दिक्कालाकाशानामिव सम्मतं परेषां सिद्धान्तविरोधान्महेश्वरकल्पना वैयर्थ्याच्च । ननु तेषु पुरुषान्तरेषु सत्स्वपि कदाचित्कार्यानुत्पत्तिदर्शनात् न तेषां तन्निमित्तकारणत्वं न तदन्वयभावश्चेति चेत्, मैवम्, ईश्वरे सत्यपि कदाचित्कार्यानुत्पतिदर्शनस्य समानत्वात् तस्यापि तदनिमित्तकारणत्वं तदन्वयाभावश्च स्यात्, एतेनेश्वरेच्छायां नित्यायां सत्यामपि कदाचित्तन्वादिकार्यानुत्पत्तिदर्शनेन तस्या तन्निमित्तकारणत्वाभा वोऽन्वयाभावश्च साधितः । एवं कालादिषु सत्स्वपि कदाचि - त्कार्यानुत्पत्तेः तेषामपि न निमित्तकारणत्वं अनन्वयात् । अथ सामग्रीजन्यत्वं कार्यस्य न तु तदेकैककारणजन्यत्वमिति न तदन्वयव्यतिरेकावन्वेषणीयौ सामग्र्या अन्वयव्यतिरेकाभ्यां तस्याः कारणत्वस्य सिद्धत्वात्, सामग्र्यन्तर्गतत्वादीश्वरस्यापि कारणत्वं सिद्धमेव, सत्यमेतत्, केवलं यथा समवाय्यसमवायिकारणानामनित्यानां धर्मादीनां च निमित्तकारणानामन्वयव्यतिरेकौ प्रसिद्धौ कार्यजन्मनि न तथेश्वरस्य नित्य सर्वग
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy