________________
पुनरर्थकस्यान्वय्यवच्छेदकस्यैवकारस्योपादानम्, आत्म-शरीरेन्द्रियार्थ-बुद्धि-मनः प्रवृत्ति-दोषप्रेत्यभावफल-दुःरूपवर्गभेदेन द्वादशसङ्घयकाः प्रमेयाः न तु तदधिकसङ्घयका इत्यर्थः, तत्रात्माजीवे. श्वरभेदेन द्विविधः, तदुभयसाधारणमात्मत्वं ज्ञानवत्त्वंप्रयत्नवत्त्वमिच्छावत्त्वं वा लक्षणम्, विशिष्य तु जन्यज्ञानादिमत्वं जीवस्य, नित्यज्ञानवत्त्वमीश्वरस्यलक्षणं बोध्यम् । तत्र जीवात्माप्रतिशरीरंभिन्नोविभुनित्यश्च, ईश्वरस्तु जगत्कर्तक एव विभुनित्यश्च । 'चेष्टेन्द्रियार्थाश्रयः शरीरम्' इति गौतमीयसूत्राच्चेष्टाश्रयत्वमिन्द्रियाश्रयात्वमर्थाश्रयत्वञ्च प्रत्येकं शरीरलक्षणम्, अन्त्यावदित्वे सतीत्तिविशेषणंदेयं तेनशरीरावयवे नातिव्याप्तिः, हात्वञ्चप्रयत्नजन्यतावच्छेदकोजाति विशेषः, चक्षुष्मान् देवदत्तोऽयमित्यादिप्रतीतेरिन्द्रियाश्रयत्वमपि शरीरे, आश्रयत्वञ्च तत्रावच्छेदकताख्यस्वरूपसम्बन्धविशेषेणेति, अर्थपदेनात्र सुखदुःखान्यतरस्यग्रहणं, अत्राप्याश्रयत्वमवच्छेदकताख्यस्वरूपसम्बन्धेन, तेन सम्बन्धेन सुखाश्रयत्वंदुःखाश्रयत्वञ्च प्रत्येकं लक्षणम्, तच्छून्यखण्डशरीरेऽव्याप्तिवारणाय सुखाद्याश्रयवृत्तिद्रव्यत्वव्याप्यव्या यजातिमत्त्वं लक्षणं लाशजातिश्च मानुषत्वचैत्रत्वादिः,कल्पभेदेन नृसिंहशरीरस्यनानात्वान्नृसिंहत्वजातिमादाय तत्र लक्षणसमन्वयः, शरीरश्चपार्थिवजलीयतैजसवायवीयभेदेन चतुर्विधम्, तत्र पार्थिवं योनिजमयोनिजं च, तत्र योनिजं जरायुजमण्डजं च, जरायुजं मानुषादी. नाम्, अण्डजं सर्यादीनाम्, अयोनिजं स्वेदजोभिजादिकम्, स्वेदजाः कृमिदंशाद्याः, उद्भिजास्तरुगुल्माद्याः, नारकीणां शरीरमप्य