________________
( ४५ ) विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥१८॥ अत्रेत्थमुपाध्यायश्चचितम्- द्विविधोऽप्ययं अध्यात्मभावनाध्यानसमतावृत्ति क्षयभेदेन प्रञ्चधोक्तस्प योगस्य पञ्चभेदेऽवतरति
वृत्तिक्षयोह्यात्मनः कर्मसंयोगयोग्यतापगमः, स्थूलसूक्ष्माह यात्मनश्चेष्टा वृत्तयः, तासां मूलहेतुः कर्मसंयोगयोग्यता, सा चाकरणनियमेन ग्रन्थिभेदे उत्कृष्टमोहनीयबन्धव्यवच्छेदेन तत् तद्गुणस्थाने तत् तत् प्रकृत्यान्तिकबन्धव्यवच्छेदस्य हेतुना क्रमशो निवर्तते, तत्र पृथक् ववितकसविचारैकत्ववितर्काविचाराख्यशुक्लध्यानद्वयभेदे सम्प्रज्ञातः समाधिः व्यत्त्यर्थानां सम्यग्ज्ञानात्, तदुक्तं'समाधिरेष एवान्यैः सम्प्रज्ञातोऽभिधीयते ।
सम्यकप्रकर्षरूपेण वृत्त्यर्थज्ञातस्तथा ॥१॥' निर्वितर्कविचारानन्दास्मितानि सस्तु पर्यायविनिर्मुक्तशुद्धद्रव्यध्यानाभिप्रायेण व्याख्येयः, यन्नयमालम्ब्योक्तम् 'का अरइ के आणं दे इत्थं पि अगाहे चरे' इत्यादि,
क्षपकणिपरिसमाप्तौ केवलज्ञानलाभस्त्वसम्प्रज्ञातः समाधिः, भावमनोवृत्तीनां ग्राह्यग्रहणाकारशालिनीनामवग्रहादिक्रमे तत्र सम्यक् परिज्ञानाभावात्, अत एव भावमनसा संज्ञाऽभावाद् द्रव्यमनसा च तत् सद्भावात्, केवलिनो संज्ञीत्युच्यते, तदिदमुक्तं योगबिन्दो-'असम्प्रज्ञात एषोऽपि समाधिर्गीयते वरैः। निरुद्धाशेषवृत्त्यादि तत् स्वरूपानुवेधतः ॥१॥
धर्ममेद्योऽमृतात्मा च भवशत्रुः शिवोदयः ।