SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ( ४२ ) "पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः । शिखी मुण्डी जटी वापि मुच्यते नात्र संशयः || १||" इति, बन्धश्च प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधः, तत्र प्रकृतावात्मज्ञानाद्ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धी: पुरुषबुद्धयोपासते तेषां वैकारिको बन्धः, इष्टापूर्ते दाक्षिण:, पुरुषतत्त्वानभिज्ञो हीष्टापूर्त्तकारी कामोपहतमनावबुद्धधत इति । इति संक्षेपेण कापिलदर्शन दिग्दर्शनम्, तान्येव चतुर्विंशतितत्त्वान्येव, पाताञ्जलमतान्यपि पतञ्जलिमुन्यनुयायि योगाचार्य मतान्यपि एतावाँस्तु विशेषः क्ल ेशकर्म विपाकाशयै रपरामृष्टो निर्माणका यमधिष्ठाय संप्रदाय प्रद्योतकोऽनुग्राहक श्वेश्वरः पतञ्जलिनाभ्युपगतः, तत्र अविद्याऽस्मिता रागद्वषाभिनिवेशा: क्रुशाः, अविद्या मिथ्याज्ञानम् अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिः, अस्मिता बुद्ध्यात्मनोरेकत्वेन ज्ञानमित्येके, अहङ्कार इत्यन्ये, रागद्वेषौ कामक्रोधौ, अभिनिवेशो मरणभयम्, यद्यपि तन्मते क्लेशादीनामन्तः करणधर्मत्वात् क्षेत्रज्ञानमपि तदपरामृष्टत्वमस्त्येव, तथापि अन्तः करणवत्तिभिरपि क्लरेशादिभिर्न परामृश्यते स भगवानीश्वर इति व्यक्तं योगभाष्ये इति मकरन्दः, कर्मधर्माधर्महेतुर्भावनासाध्यं यागहिंसादि, विपाको जात्यायुर्भोगाः, फलपर्यन्तमाशेरत इत्याशया धर्माधर्माः तं रपापमृष्टः, शरीरंकनिष्पाद्यवेदादिनिर्माणार्थंकायो निर्माणकायस्तमधिष्ठायोपादाय, सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायो वेदस्तस् प्रद्योतकः प्रकाशको यतोवेदोऽनादिरेव भगवता द्योत्यते, वेदे
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy