SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ( ३० ) तत्प्रश्न प्रतिविधानं नाम - स्थापना द्रव्य भावैः, तन्न्यसनं नाम जीवः स्थापनाजीवो द्रव्यजीवो भावजीव इत्येवं न्यासः, निक्षेपत्वेन निक्षेपरूपतया कीर्त्तितं जैनाचार्यैस्तवस्त्वगमाय कथितम्, तत्र "यस्य कस्यापि द्रव्यस्य जीव इति नाम बुधैः ॥ क्रियते तत्तुविज्ञेयं नाम जीव इति स्फुटम् ॥ १७ ॥ काष्ठपुस्ताक्षनिक्षेप चित्रकर्मादिकं च यत् ॥ स्थाप्यते जीव इति स स्थापनाजीव इष्यते ॥ १८ ॥ गुणपर्यायवियुक्तः प्रज्ञास्थापितमात्रकः ॥ द्रव्यजीवो मतोऽनादि पारिणामिकभावभाग ॥ १६ ॥ शून्योवाज्यं मतोजीवेऽजीवोयद्येति जीवताम् ॥ द्रव्यजीवस्तदायं स्यात्, नैवमिष्टं तु कर्हिचित् ॥ २० ॥ औपशमिकाविभाव- युक्तोपञ्चोपयोगपान् ॥ भावजीवो मतो जीवः संसारी मुक्त इत्यपि ॥२१॥ एवं द्रव्येऽपिनामादि-योजनाऽभिमता बुधैः ॥ द्रव्यद्रव्यं तु तत्रापि पूर्ववत् कल्प्यविग्रहम् ॥ २२ ॥ केचिदाहु द्रव्यद्रव्यं पुद्गलद्रव्यमेवहि ॥ उत्पद्यन्तेऽणवः स्कन्धा यस्मात् सङ्घातभेदतः ॥ २३ ॥ गुणपर्यायसंयुक्तं धर्मादिद्रव्यमिष्यते ॥ भावद्रव्यं व्यापकं तत् स्यानिक्षेपचतुष्टयम् ॥ २४ ॥ द्रव्यार्थिकनये इष्टा निक्षेपा भाववजिताः ॥ भावनिक्षेप एवैकः पर्यायार्थिकसम्मतः ॥ २५ ॥ अन्ये शब्दनये भावः चत्वारोऽर्थनये मतः ॥ इति प्राहुः परे प्रोचुः स्थापना नैव सङ्ग्रहे ॥ २६ ॥
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy