SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ( २५ ) कृत्स्नकर्मक्षयलक्षणमोक्षान्वितो मुक्तः, तस्य प्रथमसमय सिद्धादि - विधानं तत्त्वार्थादितोऽवसेयम्, अजीवः जीवादन्योऽजीव इति पर्युदास प्रतिषेधोऽत्र, तेन साकारानाकारोपयोगलक्षणचैत्यन्यात्मकं द्रव्यमजीवः, स च धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायद् गलास्तिकायभेदेन चतुविधः अस्ति शब्देन ध्रौव्यं कायशब्देनोत्पाद व्ययौ सर्वत्रावगम्यते, तेनोत्पादव्मयध्रौव्यलक्षणं सत्त्व सुदृढनिरूढं भवति, जीवोsप्युत्पादव्यय प्रौव्ययुक्तत्वाज्जीवास्तिकायशब्दव्यपदेश्यः | गुणपर्यायवद् द्रव्यमिति द्रव्यलक्षणयोगाद्धर्मादयश्चत्वारोजीवाश्च पञ्चद्रव्याणि नित्यावस्थितान्यरूपाणि पुद्गलव्यतिरिक्तान्येतानि, पुद्गलास्तु रूपवन्तः, धर्माधर्माकाशा एकद्रव्याणि निष्क्रियाणि च, पुद्गलजीवास्त्वनेकद्रव्याणि क्रियावन्तश्च अस्तिकायेत्यत्र कायशब्देन प्रदेश बहुत्वमवयवबहुत्वं वोच्यत इति तत्र धर्माधर्माकाशजीवानां प्रदेशबहुत्वं, प्रदेशो नामापेक्षिकः सर्व सूक्ष्मवस्तु परमाणोरवग्राहः, परमाणुभिन्नानां स्कन्धात्मकानां पुद्गल नामव यवबहुत्वम्, प्रदेशः प्रदेशिवियुक्तो न भवति, अवयवस्त्ववयविवियुक्तोऽपि भवतीत्यनयो वैलक्षण्यम्, तत्र धर्माधर्मयोरसङ्घयेयप्रदेशाः सततं विततावस्थिताः, एकजीवस्यासङ्घयेयप्रदेशाः सङ्कोचविकाशस्वभावाः, तत्वादेव जातुचिन्निकृष्ट कुन्थुशरीरग्राहिणः विकाशित्वादिति, आकाशस्यानन्ताः, प्रदेशाः आलोकाकाशसमाश्रयणेन, लोकाकाशस्यत्वसङ्ख्याः प्रदेशाः सङ्ख्येयाः असङ्ख्येया अनन्ताश्च प्रदेशाः, अणुव्यतिरिक्तानां पुद्गलानाम्, परमाणुस्त्वादिमध्यान्त्यप्रदेशरहितः, धर्माधर्मद्वयाधारआकाशोलोकाकाशः, तत्र कृत्स्ने धर्माधर्मयोरवगाहः, तस्यैकप्रदेशादिषु पुद्गलानामवगाहो -
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy