SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ( १६ ) " अहो ? चित्रं चित्रं तव चरितमेतन्मुनिपते । स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां । विपक्षक्षेप्तृणां पुनरिह विभो? दुष्टनयताम् ॥१॥ निशेषांशजुषां प्रमाणविषयोभूयं समासेदुषां । वस्तूनां नियतांशकल्पनपराः सप्तश्रुतासङ्गिनः॥ औदासीन्यपरायणास्तदपरे चांशे भवेयु नया-। श्वेदेकान्तकलङ्कपङ्ककलुषास्तेस्यु स्तदा दुर्नयाः ॥२॥" इति, वस्त्वेकदेशस्य न वस्तुत्वं किन्तु वस्त्वंशत्वं, तदुक्तं नायं वस्तु न चा वस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रोवा समुद्रांशो यथैव हि ॥१॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता। समुद्रबहुतावा स्यात् तत्त्वे वास्तु समुद्रवित् ॥२॥ इति, तत्र वस्त्वंशे प्रवर्त्तमानोऽभिप्रायविशेषोऽपि स्वार्थंकदेशव्यवसायलक्षणो न प्रमाणं नाप्यप्रमाणं किन्तु प्रमाणांशो नयः, तदुक्तं" ना समुद्रः समुद्रोवा समुद्रांशो यथैवहि ॥ नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः ॥१॥" ननु जैनमत एव प्रमाणभिन्नतया नयस्योपदर्शनं नान्यत्रेति चेत्, न, मतशब्दवाच्यस्य नयातिरिक्तस्य दुर्वचत्वात्, यत्र जैनमत इत्युच्यते तत्र जननये इत्यप्यभिधीयते एवं वैशेषिकेनये वैशेषिके मते, नव्यनये नव्यमते इत्यादेर्बहुलं दर्शनात् । ननु पुरुषाभिप्राय विशेषाणां नयानां पुरुषानन्त्यमेव स्यात् कथं सप्तसङ्ख्यत्वमिति, उच्यते
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy