SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ( १६ ) पुरुषशङ्कतलक्षणसमयादेव केवलाच्छब्दोऽर्थमवबोधयतीति नैयायिकमतस्यातीन्द्रियातिरिक्तार्थप्रतिपत्यनुकूलशक्तिव्यवस्थापनेन प्रतिबन्धकाभावस्य स्वातन्त्र्ये दाहंप्रतिकारणत्वं न तु दाहानुकूलशक्तिमत्त्वेन वह्न दहिं प्रति काणत्वमिति तदभिमतामकरणेन च यथाखण्डनं तथोपपादितं रत्नाकरे, शब्दस्यार्थप्रकाशकत्वं स्वाभाविकं प्रदीपवत्, यथार्थत्वायथार्थत्वे पुनः पुरुषगुणदोषनिबन्धने । विधिनिषेधोभयात्मकबहिरन्तः पदार्थप्रतिपादने सप्तभङ्गात्मकवाक्यमेव प्रगल्भते, एकत्र वस्तुनि एकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वास्यप्रयोगः सप्तभङ्गीति सप्तभङ्गीस्वरूपप्रतिपादकं प्रमाणनयतत्वालङ्कारसूत्रम्, अनन्तधर्मात्मकस्य वस्तुनः प्रतिधर्म विधिनिषेधाभ्यां सप्तधैव संशयः, ततश्च सप्तधैव जिज्ञासा, ततस्सप्तधैव प्रतिप्राद्यपुरुषपर्यनुयोग इति ततस्तदपाकरणपरमुत्तरवाक्यस्वरूपं सप्तभङ्गात्मकमेव महावाक्यम्, तदुक्तम्'या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपेक्ष्यवाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषानिरदेशिदेव भवता सा सप्तभङ्गी यया जल्पन जल्परणाङ्गणे विजयते वादी विपक्ष क्षणात् ॥१॥' इति १ स्यादस्त्येव सर्व, २ स्यान्नास्त्येव सर्वम्, ३ स्यादस्त्येव स्यानास्त्येव सर्वम्, ४ स्यादवक्तव्यमेव सर्वम्, ५ स्यादस्त्येव स्यादवक्तव्यमेव सर्वम्, ६ स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्, ७ स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेव सर्वम् इत्येवं सप्तभङ्गानां समाहार
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy