SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ( १० ) यमेषां स्वरूपावेदकम् । पारमार्थिकप्रत्यक्षं विकलं सकलं चेति द्विप्रकारम्, तत्र विकलमवधिमनःपर्यांयज्ञानभेदेन द्विप्रकारम्, तयोः स्वरूपविषयादिकं प्रदर्शितं प्राक्, प्रमाणनयतत्त्वालोकालङ्कारे च "अवधिज्ञानावरणविलयविशेष समुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम्, ' "संयमविशुद्धिनिबन्धनाद्विज्ञिष्टावरणविच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनः पर्यायज्ञानम्" इति अवतारिकायां संयमेत्यादि सूत्रव्याख्यानं यथाविशिष्टचारित्रवशेन योऽसौ मनःपर्यायज्ञानावरणक्षयोपशमस्तस्मा दुभूतं मानुषक्षेत्रर्वात्तसंज्ञिजीवगृहीतमनोद्रव्यपर्यांयसाक्षात्कारि ज्ञानं तन मनःपर्यायज्ञानमित्यर्थः, सकलं तु केवलज्ञानं तत् स्वरूपविषयादिकमावेदितं प्राग्, प्रमाणनयतत्त्वालोकालङ्कारसूत्रं तदुपदर्शकमिदम् " सकलं तु सामग्रीविशेषतः समुद्भूत समस्तावरणक्षयापेक्षं निखिलद्रव्य पर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् " मीमांसकः सर्वज्ञं न स्वीकरोति तन्मतस्योपदर्शनपुरस्सरमपाकरणं रत्नाकरावतारिकादो, केवलज्ञानवान् अर्हनेव, प्रमाणाविरोधिवाकत्वेन तस्य निर्दोषत्वम्, जैनस्तद्वातिरिक्तो जगत्कर्त्तासर्वज्ञ ईश्वरो नाभ्युपेयते, जगत्कर्तुं रीश्वरस्य खण्डनं रत्नाकराद्याकर ग्रन्थतोऽवसेयम्,
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy