SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ व्यवसायोति विशेषणम्, संशयविपर्ययानध्यवसायानां समारोपत्वेन साजात्यम्, समारोपश्च अतस्मिस्तदध्यवसायः, अतत्प्रकारे पदार्थ तत्प्रकारतानिर्णयः समारोप इति यावत्, एतल्लक्षणाक्रान्तता संशयादित्रयाणामपि, तत्र “साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पशिज्ञानं संशयः, यथाऽयं स्थाणुर्वा पुरुषो वेति । विपरीतककोटिनिष्टकूनं विपर्यपः, यथा शुक्तिकायामिदंरजतमिति, किमित्यालोचनमात्रमनध्यवसायः, यथा गच्छत् तृणस्पर्शज्ञानमिति, संशयादनात्मकत्वे सति निश्चयत्वं व्यवसायत्वमत्र बोध्यम्, पारमार्थिकपदार्थसार्थापलापि ज्ञानाद्वैतादिवादिमतापकरणाय परेति, ग्राहकाज्ज्ञानादन्योऽचेतनस्सचेतनो वाऽर्थः परपदेनात्र विवक्षितः, नित्यपरोक्षबुद्धिवादिनां मीमांसकधुरन्धराणां भाट्टानामेकात्मसमवाय ज्ञानान्तरप्रत्यक्षज्ञानवादिनां वैशेषिकनैयायिकानां मतापकरणाय स्वेति, सम्पूर्णञ्चेदं लक्षणवाकय परोपकल्पितस्यार्थोपलब्धिहेतुत्वादेः प्रमाणलक्षणत्वप्रतिक्षेपार्थम् । अर्थोपलब्धिसाधनत्वादेः प्रमाणलक्षणत्वप्रतिक्षेपे संवादक श्रीरत्नप्रभसूरिवचनं यथा"अर्थस्य प्रमितौ प्रसाधनपटु प्रोचुः प्रमाणं परे तेषामञ्जनभोजनाद्यपिभवेद्वस्तुप्रमाणं स्फुटम् ॥ आसन्नस्य तु भानता यदि तदा संवेदनस्यैव सा स्यादित्यन्धभुजङ्गरन्ध्रगमवत् तीर्थ्य:श्रितं त्वन्मतम् ॥१॥" इति, पराभिमतलक्षणव्यवच्छित्तय एवोक्तं नचापरमिति, स्वपरव्यवसायिज्ञानभिन्न न च प्रमाणमित्यर्थः, प्रमाणाप्रमाणयोः परस्पर विरुद्धधर्मयोगित्वात् प्रमाणस्वभावेऽवष्टते तदितस्त्व
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy