SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ( १३६ ) । श्रीसुशीलसूरीश्वराष्टकम् ।। रचयिता-बीकानेर निवासी शा० नेमिचन्दजी पुगलिया (तेरापन्थी) [ अनुष्टुब्-वृत्तम् ] श्रीमतां पूज्य-पादानां, बीकानेरपुरे शुभे । आगमनमपूर्व वै, धन्यं पुण्यं शुभं सदा ॥१॥ दीक्षितो जनको यस्य, दीक्षितो ज्येष्ठ-सोदरः । दीक्षिता भगिनी लध्वी, सुशीलो दीक्षितः स्वयम् ॥२॥ नाम्ना तथा स्वभावेन, सुशीलः शोभते महान् । सरलात्मा शील-सम्पन्नः, स्तुत्यो नित्यं नवैः स्तवैः ॥३॥ सूरीशः शान्तमूत्तिश्च, जैनधर्मदिवाकरः । अनेकानां च प्रन्थानां, निर्माता स्वयमेव हि ॥४॥ साधकः सिद्धिमार्गाणां, भव्यानां भवतारकः । वारको दुष्टदोषाणां, सर्वषां सुखकारकः ॥५॥ चत्वारिंशत्तमो भव्यो दीक्षा-स्मृति-महोत्सवः । भक्तिपूर्वं समायोजि, सङ्घनाऽत्र प्रमोदतः ॥६॥ सुखपूर्व चिरायुः स्यात्-कुर्वत्-धर्मप्रभावनाम् । अङ्गीकरोतु सर्वेषां, कामनां दोषशामकम् ॥७॥ अष्टकं गुरुवर्याणां, गुणानां गुम्फितं मया। नेमिचन्द्रेण जैनेन, केवलं सिद्धि-हेतवे ॥६॥
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy