SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ( १२६ ) ॐ ॥ अथ बौद्धदर्शनम् ॥ सर्वदर्शनसिद्धान्तविज्ञलावण्यसूरितः ॥ प्राप्तज्ञानलवो बौद्धं दर्शनं वज्मि साम्प्रतम् ॥१॥ चतुर्णामार्यसत्यानां, दुःखादीनां प्रदर्शकम् ॥ दर्शनं सर्वभावानां क्षणिकत्वसमर्थकम् ॥२॥ अर्थक्रियाकारितव, सत्ता नाक्षणिकाश्रिता ॥ कुर्वद्रूपत्वमात्रण हेतुतानान्यधर्मतः ॥३॥ प्रत्यक्षमनुमानञ्च, मानं द्वधा नचापरम् ॥ कल्पनापोढमभ्रान्तं, प्रत्यक्षं निर्विकल्पकम् ॥४॥ त्रिरूपलिङ्गजनितमनुमानं तु लिङ्गिनः॥ द्वावेवावयवौ नान्ये, नामजात्यादयो मताः ॥५॥ चतुर्णां चतुः संख्यकानाम्, आर्यसत्यानाम् आर्यसत्यसंज्ञकानां, दुःखादीनां दुःख-समुदय-मार्ग-निरोधरूपाणां, प्रदर्शकं प्रकर्षण ज्ञापकं, सर्वभावानां सर्वपदार्थानां, क्षणिकत्वसमर्थक क्षणिकत्वसाधकयुक्तिप्रकरकरम्बितं, दर्शनं बौद्धदर्शनम् । अत्र विज्ञान-वेदना-संज्ञा-संस्कार-रूप-स्कन्धभेदेन पञ्चस्कन्धा दुःखम्, तत्र सर्वणिकत्वज्ञानं विज्ञानस्कन्धः, तदुक्तं यत्सत् तत क्षणिकं यथा जलधरः सन्तश्च भावा इमे, सत्ताशक्तिरिहार्थकर्मणि मिते सिद्धेषु सिद्धाश्च (न) सा॥
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy