SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ( ११६ ) द्रव्यवाचिनो नीलोत्पलपदयोश्शुक्लपटादिव्यावर्तकतयाऽन्योन्यविशेषणविशेष्यभावसंसर्गस्यान्यतरस्य तदेकयस्य वा वाकयार्थत्वोपपत्तावप्यत्र तत् पदार्थपरोक्षत्वादिविशिष्टचैतन्यत्वं पदार्थापरोक्षत्वादिविशिष्टचंतन्ययोरन्यव्यावर्तकतया विशेषणविशेष्यभावसंसर्गस्य विशिष्टेकयस्य वा प्रत्यक्षादिप्रमाणविरोधेन वाकयार्थत्वानुपपत्तेः, तदिहलक्षणाऽऽवश्यको, सा च गङ्गायां घोष इत्यत्रेव न जहती, तत्र गङ्गाघोषयोराधाराधेयभावानुपपत्त्या वाकयार्थबाधात् तं परित्यज्य तत् सम्बन्धितीरलक्षणाया युक्तत्वेऽप्यत्र परोक्षापरोक्षचैतन्यकत्वस्य वाकयार्थस्य भागमात्र विरोधादविरुद्धभागपरित्यागेनान्यलक्षणाया अयुक्तत्वात्, न य गङ्गापदं स्वार्थपरित्यागेन तीरपदार्थमिव प्रकृते तत्पदं त्वं पदं वा स्वार्थपरित्यागेन त्वं पदार्थ तत् पदार्थ वा लक्षयत्विति कुतो न जहल्लक्षणेति वाच्यम्, तत्र तीरपदाश्रवणेन तदर्थप्रतीतो लक्षणया तत् प्रतीत्यपेक्षयामपि प्रकृते तत्त्वं पदयोः श्रूयमाणत्वेन तदर्थप्रतीतो लक्षणया पुनरन्यतरपदेनान्यतरपदार्थप्रतीत्यपेक्षाभावात्, नापि शोणो धावतीतिवदजहल्लणाप्यत्र संभवति, तत्र शोणगुणगमनलक्षणय वाक्यार्थस्य विरुद्धत्वात् तदपरित्यागेन तत् सम्बन्धि यत् किञ्चिल्लक्षणायामपि विरोधापरिहारात्, न च तत् पदं त्वं पदं वा स्ववाच्यार्थविरुद्धांशं परित्यज्यां शान्तरसहितं तत् पदार्थ त्वंपदार्थवा लक्षयतु कुतः प्रकारान्तरेण भागलक्षणाङ्गीकार इति वाच्यम्, एकेन पदेन स्वार्थान्तरोमयलक्षणाया असम्भवात्, पदान्तरेण तदर्थ प्रतीते लक्षणया पुनः प्रतीत्यपेक्षाया अभावाच, तस्माद्यथा सोऽयं
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy