SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ( १०७ ) वाक्ये अरुणस्यापि तृतीयाश्रुत्या कियाङ्गत्वम्, तदपि गोरूपद्रव्यपरिच्छेदद्वारा, न तु साक्षात्, अमूर्त्तत्वात्, ब्रोहीन प्रोक्षतीति प्रोक्षणस्य बीह्यङ्गत्वं द्वितीयाश्रुत्या, तच प्रोक्षणं नव्रीहिस्वरूपार्थम्, तस्य तेन विनाप्युपपत्तेः, किन्तवपूर्वसाधनत्वप्रयुक्तम्, व्रीहोनप्रोक्ष्य यागानुष्ठाने पूर्वानुपपत्तेः, एवं सर्वेष्वङ्गष्वपूर्वप्रयुक्तमङ्गत्वबोध्यम्, एवमिमामगृभ्णन्शनामृतस्येत्यश्वाभिधानीमादत्ते इत्यत्र द्वितीयया श्रुत्या मन्त्रस्याश्वाभिधान्यङ्गत्वम्, यदा हवनीयेषु जुहोतो. त्याहवनीयस्य होमाङ्गत्वं सप्तमीश्रुत्या। एवमन्योऽपि विभक्तिश्रुत्या विनियोगो ज्ञेयः, पशुना यजेतेत्याख्याताभिहितसंख्याया आर्थीभावनाङ्गत्वं समानाभिधानश्रुतेः, एकपदश्रुत्या च यागाङ्गत्वम्, कर्तृ परिच्छेदद्वाराभावनाङ्गत्वं कर्ताचाक्षेपलभ्य इति । सेयं श्रुतिलिङ्गादिभ्यः प्रवला, लिङ्गादिषु न प्रत्यक्षो विनियोजकः शब्दोऽस्ति, किन्तु कल्प्यः, यावच्चतविनियोजकः कल्प्यतेतावत् प्रत्यक्षया श्रुत्या विनियोगस्य कृतत्वेन तेषां कल्पकत्वशक्तेाहतत्वात्, अत एवेन्द्रना लिङ्गानेन्द्रोपस्थापनार्थत्वं, किन्तु ऐन्द्रया गार्हपत्यमुपतिष्ठत इत्यत्र गार्हपत्यमिति द्वितीयाश्रुत्यागार्हपत्योपस्थापनार्थत्वम् । शब्दसामर्थ्य लिङ्गम्, यदाहुः- 'सामर्थ्य सर्वभावानां लिङ्गमित्यभिधीयते' इति, सामथ्यरूढिरेव, तेन समाख्यातो नाभेदः, यौगिकशब्दसमाख्यातो रूढ्यात्मकलिङ्ग शब्दस्य भिन्नत्वात्, तेन बहिर्देवसदनंदामीति मन्त्रस्य कुशलवनाङ्गत्वं, न तूलयादिलवनाङ्गत्वम्, तस्य बहिर्दामोतिलिङ्गात् तललवनं प्रकाशयितुं समर्थत्वात्, एवमन्यत्रापि लिङ्गाद्विनियोगो द्रष्टव्यः, तदिदं लिङ्ग वाक्या
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy