SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ( १०१ ) रूपहानिरसम्बन्धो जातिबाधकसङ्गहः ॥१॥' इति, तदेतत् सामान्यं परम्, अपरं, परापरञ्चति त्रिविधं वैशेषिकः परिकीतितम्, तत्र सर्वसामान्यापेक्षयाऽधिकदेशवृत्तित्वरूपपरत्ववत्सत्त्वं द्रव्यगुणकर्मवृत्ति, सर्व सामान्यापेक्षया न्यूनदेशवृत्तित्वलक्षणापरत्ववद् घटत्वादि, द्रव्यत्वपृथिवीत्वादिकं तु घटत्वाद्यपेक्षयाऽधिक. देशवृत्तित्वात सत्ताद्यपेक्षया न्यूनदेशवृत्तित्वात् परापरमिति । अनन्ताश्च विशेषाः स्युरिति, सद्भिन्नत्वे सति एकव्यक्तिमा. असमवेतत्वं विशेषत्वम्, घटपटादीनां परस्परविरुद्ध घटत्वपटत्वादिमत्त्वाद् भेदः, द्वयणुकादीनाञ्च विभिन्नावयवारब्धत्वाभेदः, परमाण्यादीनां च नित्य द्रव्याणां विभिन्न विशेषवत्वादेव परस्परं भेदः, विशेषाश्च स्वत एव व्यावृत्ता, नित्यद्रव्याणामानन्त्यात् तद् गतानां विशेषाणामप्यानन्त्यमिति । समवायो न भेदभागिति, नित्यसम्बन्धत्वं समवायस्य लक्षणम्, अयुतसिद्धयोरवयवावयविनो गुणगुणिनोः क्रियाक्रियावतो जातिव्यक्त्यो नित्यद्रव्यविशेषयोश्च सम्बन्धे समवायः, न भेदभाग् अयं न भेदं विभिन्न प्रकारत्वं भजति, किन्तु लाघवादेक एव समवायः, गुणक्रियादिविशिष्टबुद्धि विशेषणविशेष्यसम्बन्धविषया विशिष्टबुद्धित्वात् दण्डी पुरुषइति विशिष्ट बुद्धिवदित्यनुमानेन लाघवादेकस्यैव समवायस्यसिद्धः, सम्बन्धप्रत्यक्षे यावत् सम्बन्धिप्रत्यक्षस्य हेतुत्वात् समवायसम्बन्धिनामतीन्द्रियाणामपि परमाण्वादीनां सद्भागत् समवायो नाध्यक्षगोचर इति । अभावो द्विविध इति, द्रव्यादिषट्कान्योन्याभाववत्त्वमभावस्य लक्षणम्, संसर्गाभावान्योन्याभावभेदेन स द्विविधः,
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy