SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ( 6 ) सङ्घयादिपञ्चकं परत्वापरत्वे वेगश्चेत्यष्टौ गुणा मनसि । बुद्धयादिषट्कं रूपादिचतुष्टयं स्नेहसांसिद्धिकद्रवत्वादृष्टभावनाशब्दा गुणाः, एतद् भिन्नास्सामान्यगुणा इति, अन्येऽपि गुणगत विशेषासूत्रभाष्यवृत्त्यादितो ज्ञेयाः । कर्मणि पश्चेति, गुणभिन्नत्वे सत्यसमवायिकारणत्वं द्रव्यगुणभिन्नत्वे सति सामान्यवत्त्वं संयोगविभागोभयनिरूपितासमवायिकारणत्वं कर्मत्वजातित्त्वं वा कर्मणो लक्षणं, कर्मवजातिस्तु प्रत्यक्षसिद्धा, उक्त लक्षणलक्षितानि कर्माणि उत्क्षेपणापक्षेपणाकुश्चनप्रसारणगमनभेदेन पञ्चप्रकाराणीत्यर्थः, तत्र ऊवदेश संयोगानुकूलं कर्मोत्क्षेपणम् अधोदेशसंयोगानुक्लमपक्षेपणम्, अवयवानां परस्परसन्निकृष्टदेशसंयोगानुकूलं कर्माकुञ्चनं, विप्रकृष्टदेशसंयोगानुकूलं कर्म प्रसारणम्, एतच्चतुष्टभिन्न कर्मगमनम्, भ्रमणरेचनस्यन्दनोव॑ज्वलनतिर्यग्गमनानां गमन एवान्तर्भावानकर्माधिकघम् तदेतत्कर्मपञ्चकं पृथिवीजलतेजोवायुमनोवृत्ति, कर्मवत्त्वमेवैतेषां मूर्त्तत्वं न तु तज्जाति तत्वेन सह साङ्कर्यात्, भूतत्वं च बहिरिन्द्रिय ग्राह्यविशेषणगुणवत्त्वं तदाश्रयत्वात् पृथिव्यादीनि पञ्चभूतानि । सामान्यं त्रिविधं परिकीतितमिति, नित्यत्वे सत्यनेकसमवेतत्वं सामान्यस्य लक्षणम्, अनुगतप्रतीतिनियामकतया कार्यकारणभावावच्छेदकतया, शब्दप्रवृत्तिनिमित्ततया च सामान्य सिध्यति, द्रव्यगुणकर्मसु द्रव्यं सत् गणः सन् कर्म सदिति यदियं सदित्यनुगतप्रतीतिस्तस्या विषयविधयानियामकमेकमवश्यमभ्युपेयं तदेव सत्त्वम्, द्रव्यत्वादिकं कारणतावच्छेदकतया
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy