________________
( ८७ ) रूपस्कन्धादिवचनम्, द्वितीयं-कश्यपतनयधृतिहेतुरयं त्रिनयनसमाननामधेयवान् तत् केतुमत्त्वादित्यादि। तृतीयं श्वेतोधावतीत्यादि। पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्, अस्य अभिमतवाक्यार्थबोधानुकूलाकाङ्क्षादिशून्यबोधजनकपदत्वमपार्थकत्वमित्यत्र पर्यवसानम् यथा दश दाडिमानि षड्पूपा इत्यादि । 'अवयवविपर्यासवचनमप्राप्तकालम्' इदं च सूत्रमित्थं व्याख्यातं वृत्तिकृता___ अवयवस्य कथैकदेशस्य विपर्यासो वैपरोत्यं, तथा च समयबन्धविषयीभूतकथाक्रमविपरीतक्रमेणाभिधानं पर्यवसन्नम्, तत्रायं क्रमः वादिना साधनमुक्त्वा सामान्यतो हेत्वाभासा उद्धरणीया इत्येकः पादः, प्रतिवादिनश्च तत्रोपालम्भो द्वितीयः पादः, प्रतिवादिनः स्वपक्षसाधनं तत्र हेत्वाभासोद्धरणश्चेति तृतीयः पादः, जयपराजयव्यवस्था चतुर्थपादः, एवं प्रतिज्ञाहेत्वादीनां क्रमः, तत्र सभाक्षोभव्यामोहादिनाव्यस्ताभिधानमप्राप्तकालममिति । ___ स्वदर्शनसिद्ध यत्किश्चिदवयवशून्यावयवाभिधानं न्यूनम्, सौगतस्योदाहरणोपनयावयवद्वयवादिनः प्रतिज्ञाद्यवयवानभिधाने. ऽपिन न्यूनम्, प्रतिज्ञाद्यवयवपञ्चकाभ्युपगन्तु नैयायिकस्य तु तथानभिधाने भवत्येव तत् । हेतूदाहरणाधिकमधिकम्, यथा धूमादालोकात्महानसबच्चत्वरवदिति । निष्प्रजोजनं शब्दार्थयोः पुनरभिधानं पुनरुक्तम् अनुवादस्तु सप्रयोजनत्वान्न तत्, समानार्थकपूर्वानुपूर्वीकशब्दप्रयोगः शब्दपुनरुक्तं यथा घटो घट इति, समानार्थकभिन्नानुपूर्वीकशब्दप्रयोगोऽर्थपुनरुक्तम्, यथा घटः कलस इति ।
विज्ञातस्य परिषदा त्रिभिरभिहितस्याप्यनुच्चारणमननुभाषणम्, तदिदं चतुर्धा- एकदेशानुवादात्, विपरीतानुवादात्, केवलदूषणो.