SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ( ८५ ) नित्यसम्बन्धात् तानीत्यनुक्तमप्युन्नीयते तानि दूषणानि निग्रहस्थानसंज्ञानि निग्रहस्थानव्यपदेश्यानि, वै निश्चयेन, द्वाविंशतिमितानि द्वाविंशतिसंख्यकानि, ___ "विप्रतिपत्तिरप्रत्तिपत्तिश्च निग्रह स्थानम्" इति सूत्रेण विप्रतिपत्त्यविप्रतिपत्यन्यतरोन्नायकधर्मवत्त्वं निग्रहस्थानत्वमिति लक्षणं सूचितम्, " प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न यासो हेत्वन्तरमर्थान्तरं निरर्थकमपार्थक्रमप्राप्तकालं न्यूनमधिकं पुनरुक्त मननुभाषणमज्ञानमप्रतिभाविक्षेपो मतानुज्ञापर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽयसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि" इति सूत्रोपदर्शितानिद्वाविंशतिसंख्यकानि निग्रहस्थानानि, तत्र स्वपक्षे परपक्षधर्मानुज्ञा प्रतिज्ञाहानिः, सेयं पक्षहेतुदृष्टान्तसाध्यतदन्यहानिभेदात् पञ्चधा । यत्र शब्दोऽनित्यः कृतकत्वादित्युक्ते प्रत्यभिज्ञया बाधितविषयोऽयमित्युत्तरिते अस्तु तर्हि घट एव पक्ष इति, तत्र पक्षहानिः, तत्रैव ऐन्द्रियकत्वादिति हेतो रनकान्तिकत्वमिति प्रत्युक्ते अस्तु कृतकत्वादिति हेतुरिति हेतुहानिः पर्वतोवह्निमान्धूमादयोगोलकवदित्युक्ते दृष्टान्त साधन विकल इति प्रत्युक्ते अस्तु तर्हि महानसवदिति दृष्टान्तहानिः, अत्र व सिद्धसाधने च प्रत्युक्त अस्तु हि इन्धनवानिति साध्यहानिः, अन्यहानिस्तु विशेषणहान्यादिः, यथा तत्र व नीलधूमादित्युक्त - समर्थाविशेषणत्वेन प्रत्युक्ते अस्तु तहि धूमादिति हेतुरित्यादि । प्रतिज्ञातार्थस्य प्रतिषेधे कृते विशेषणान्तर विशिष्टतया तत् कथनं प्रतिज्ञान्तरम्, प्रतिज्ञातार्थस्येत्युपलक्षणं हेत्वतिरिक्तार्थस्येति
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy