SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३६५ नाशो भावस्य हेतुर्भवति भनु ततस्तद्विलम्बाद् विलम्ब___ स्तस्य स्यात् तेन नाशः कतिपयसमयावस्थितेरुत्तरं स्यात् । भावानां स्थैर्यमित्थं बहुसमयगतत्वेन याति प्रसिद्धिं, .......... नाशो भाववरूपो भवति ननु ततः कार्यता तस्य युक्ता ॥ ८५ ॥ अत्राहुबौद्धमुख्याः क्षणिकमतिभवोऽध्यक्षतोऽध्यक्षधी!, पूर्व नैवोत्तरं वा समयमनुगतं तत्र वा वेत्ति किन्तु । अद्धा यो मध्यमात्मा क्षण इति गदितस्तद्गतत्वं पदार्थे, गृह्णातीत्थं प्रमाणं क्षणलयविषयं किं न नोऽध्यक्षमेव ॥ ८६ ॥ अध्यक्ष निर्विकल्पात्मकमिह घटते स्वानुरूपं विकल्पं, द्वारीकृत्य प्रमाणं व्यवहृतिफलकं चानुमानं प्रमाणम् । पारम्पर्येण वस्तुप्रभवमिति विकल्पत्वभावेऽपि मानं, सत्त्वाद्धेतोस्तु तत् स्यात् क्षणिकविषयकं नाप्रवृत्तिस्ततोऽस्य ॥ ८७॥ अत्राऽऽशङ्कोत्तराभ्यां सुहृदपदमितः साध्य हेत्वोश्च बन्ध स्तादात्म्यात्माऽथ सत्त्वं क्षणिकनियमितं योगपद्य-क्रमाभ्याम् । ताभ्यां नित्य तु नैवाभ्युपगमपदगं कार्यकारित्वरूपं, सत्त्वं प्रश्नोत्तराभ्यां क्षणिकमतमिदं साधितं चैव ताभ्याम् ॥ ८८ ॥ चर्चाऽनेका प्रसङ्गादिह बुधप्रथिता भाविता कार्यकाले, हेतोः सत्वं न चावश्यकमिति भविता किं क्षणस्थो न हेतुः। सादृश्यस्यानुसाराद् व्यवहृतिबलतो हेतुभावव्यवस्था, . कुर्वद्रूपत्वतः स्यान्न च भवति ततोऽतिप्रसङ्गाऽऽदिदोषः ॥ ८९॥ उक्तं चाविद्धकर्णादिभिरपि यदपि स्थैर्यपक्षाभिमानात् , तत् क्षिप्तं नाशभेदप्रथननियमनात् कल्पिता-ऽकल्पिताभ्याम् । यच्चोक्तं प्रत्यभिज्ञा क्षणिकमिति भवे बाधिका तन्न युक्तं, न प्रामाण्यं यतोऽस्याः सुदृढमतिगतं तद्विना बाधिका नो ॥९०॥ चर्चा प्रश्नोत्तराभ्यामिह तु बहुविधा. दर्शिता प्रत्यभिज्ञा, .. दूरं क्षिप्ता तया सा न भवति प्रमिति कविज्ञानरूपा । प्रामाण्यस्याप्रसिद्धौ भवतु यदि च सा निर्विकल्पात्मिका वा, प्रत्यक्षकवरूपा क्षणिकमिति विधौ बाधिका नाऽन्यथाऽपि ॥९१॥
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy