SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३६२ अनेकान्तव्यवस्थाप्रकरणम् । नित्ये नैव क्रमेणार्थकरणमपि ते योगपद्येन नो तद्, ___ नो वा युज्येत वादस्तव तु परिणतेर्यद् विकल्पैः स भिन्नः । विस्तीर्णा चात्र चर्चा परिणतिविषया तेन साङ्ख्याभ्युपेतो, नो युक्तो हेतुवादः परिणतिबलतः किन्त्वनेकान्ततः सः ॥ ६४ ॥ किञ्चासत्कार्यवादी सदकरणमुखान् साङ्ख्यसत्कार्यहत्य, हेतून वक्तुं समर्थों भवसि च प्रतिबन्द्या गृहीतस्तदा त्वम् । एवं ते दर्शने नो कथमपि घटते साधनस्य प्रयोगे, साफल्यं संशयादेर्भवति विघटनं नैव नित्यस्य यस्मात् ॥ ६५॥ नाभिव्यक्तिस्तु युक्ता भवति प्रतिहता यत् प्रभूतैर्विकल्पैः, शङ्काऽसत्कार्यहत्यै ननु पररचिता युक्तितोऽथ व्युदस्ता । एवं सत्कार्यवादे नहि भवत उभौ बन्ध-मोक्षौ प्रधाना_ स्तित्वे ये हेतवोऽत्र प्रथममभिहतास्त त्वसिध्यादियुक्ताः ॥ ६६ ॥ चर्चा चात्रापि कान्ता परमतहननेऽदर्शि शङ्कोत्तराभ्यां, यद् यत् साङ्ख्यस्य वाच्यं तदखिलमपि संभाव्य दूरं निरस्तम् । चैतन्यं त्वात्मरूपं प्रकृति-विकृतितो भिन्नमुक्तं प्रमाणं, चाख्यातं वेदवाक्यं पुरुष उपगतो भोक्तृरूपो न कर्ता ॥ ६ ॥ मानं चात्मप्रसिद्ध्यै गदितमिह तु सङ्घातरूपं परार्थ, ___ दृष्टं शय्या-ऽऽसना-ऽभ्यङ्गप्रभृतिसकलं चक्षुराद्यास्तथैव । आत्माऽसङ्घातरूपः पर इह हि मतो नानवस्था ततोऽत्र, साङ्ख्यस्येत्थं तु मान्यं यदपि तदपि नो युक्तित: सिद्धिमेति ॥ ६८ ॥ चैतन्यं नित्यमेकं न समुचितमिहाध्यक्षतो भासते यद् , __रूपादिज्ञानभेदो बहुविषयकभोक्तृत्वमेकस्य न स्यात् । योगाञ्चैवं दिदृक्षादित इति कथनं नैव सम्बन्धबाधाद्, — भेदेऽभेदे तदुत्पादत इह भवनं चात्मनः स्यात् प्रसक्तम् ॥ ६९ ॥ भोक्तृत्वं कर्तृधर्मो नहि भवति तथा चेतनेऽकर्तृरूपे, चैतन्याभावतो नो प्रकृतिरपि भवेत् कर्मकी कथञ्चित् । पङ्ग्वन्धन्यायतश्चेत् प्रकृति-पुरुषयोर्योगतः सृष्टिरिष्टा, तां प्रत्येवं निमित्तीभवदथ पुरुषः स्याद् विकारी तदानीम् ॥ ७० ॥
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy