SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् । कथायां लुप्यन्ते वियति बत तारा इव रवौ, नयाः सर्वे दीप्ता अपि समुदिते यत्र सहसा। उदासीने त्वब्धाविव जलतरङ्गा बहुविधाः, समन्ताल्लीयन्ते श्रयत तमनेकान्तमनिशम् ॥२॥ न सामान्येनापि विशेषे किन्तु सामान्य-विशेषोभयात्मकत्वेन जात्यन्तरस्वरूपे वस्तुनेव सामान्य-विशेषोभयात्मकत्वेन जात्यन्तररूपस्य शब्दस्य भवतीति वस्तुस्थितावनेकधर्मात्मकमेकं पदम् , अनेकपदसमभिव्याहारात्मकमेकं वाक्यम् , पदान्तरासमभिव्याहारे विशिष्टार्थबोधाजनकं सत् पदान्तरसमभिव्याहारे विशिष्टार्थबोधकमित्येवं विचारे क्रियमाणेऽनेकान्तात्मकत्वं वाच्यस्य वाचकस्य पुरःस्फूर्तिकमिति शब्दरचनाऽप्यनेकान्तं विना नार्थावबोधनप्रत्यलेति सुष्ठुक्तम्-समर्था नैवार्थानधिगमयितुं शब्दरचनेति यमनेकान्तं विना, विवाद एव व्यसनं विवादव्यसनम् , विवादव्यसनमस्य समस्तीति विवादव्यसनी तं विवादव्यसनिनम् , वितण्डा परपक्षखण्डनमात्रफला कथा, सैव चाण्डाली विवादचाण्डाली, स्पृशति स्वाधीनं करोति, यः खलु वादी यं कमपि विषयं समाश्रित्य प्रवृत्तायां कथायां स्याद्वादमन्त्रं पठति तस्य स्वपक्षसिद्धिभवति, परपक्षोऽपि स्याद्वादाभिमन्त्रितः कथञ्चित्सिद्धिमासादयत्येव, तं तत्त्वनिर्णयमात्रफलककथाप्रतिष्ठाधौरेयं वादिनं सुब्राह्मणमिव वितण्डाचाण्डाली द्रष्टुमपि न क्षमा कुतः स्प्रष्टुम् , किन्तु य एव एकान्तवादकथाग्रहिलः स्वपक्षः साधयितुं न समर्थः परपक्षखण्डनमात्रपरायणो दूषणादिव्यपोहकस्याद्वादमन्त्रसमाराधनविमुखः स स्याद्वादप्रमाणराजानवलम्बितहस्तो वितण्डाचाण्डालीसमाश्रयणमन्तरेण कथायां न नाम वादिसम्मुखं स्थातुमर्हतीति तां स्पृशन्नेवावस्थातुमर्हतीति युक्तमुक्तम्-वितण्डा चाण्डाली स्पृशति च विषादव्यसनिनमिति । अथवा सूक्ष्मसूक्ष्मतरयुक्तिनिर्माणकुशलोऽपि विवादव्यसनी नैयायिको यत एव स्याद्वादं नाश्रयति तत एव वितण्डावाददुर्घटेन वेदान्तिना प्रेरितया वितण्डाचाण्डाल्या स्पृश्यत इति ॥ १॥ कथायामिति-यत्र यस्मिन्ननेकान्ते, सहसा समुदिते सति कथायां दीप्ता अपि देदीप्यमाना अपि, सर्वे नया लुप्यन्ते, वियति आकाशे, रवौ सूर्ये, सहसा समुदिते सति, तारा नक्षत्राणि यथा लुप्यन्ते तथा, बत इत्याश्चर्ये, तु पुनः, यस्मिन्ननेकान्ते' उदासीने सति सर्वेऽपि नयाः, समन्ताल्लीयन्ते अव्यक्तीभवन्ति, यथा अब्धौ समुद्रे उदासीने बहुविधा जलतरङ्गाः, समन्ताल्लीयन्ते तथेत्यर्थः' हे वादिनः ! तमनेकान्तमनिशं सर्वदा श्रयत भजत इत्यर्थः ॥२॥
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy