SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३२१ नेकान्त इतीष्टमस्माकमिति नय-प्रमाणापेक्षयैकान्तश्चानेकान्तश्चेत्येवमसौ ज्ञापनीयः, तथाहि-नित्या-ऽनित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वाऽनित्यत्वाद्येकतरधर्मावच्छेदकावच्छेदेनैकतरधर्मात्मकत्वमुभयावच्छेदेन वोभयात्मकत्वम् , तथा नित्यानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकतापर्याप्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छेदेनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्यावच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः । एतदेवाह-एवम् उक्तरीत्या, भजना-अनेकान्तः सम्भवति, नियमश्च-कान्तश्च, समयस्य-सिद्धान्तस्य-"रयणप्पभा सिय सासया सिय असासया” [ -] इत्येवमनेकान्तप्रतिपादकस्य, नेकान्तत्वे एकान्तत्वापत्तिर्दोष उक्तस्तस्यापरिहारादित्यत आह-नयेति–अनेकान्तो नयापेक्षयैकान्तः प्रमाणापेक्षयाऽनेकान्तश्च । इत्येवम् अमुना प्रकारेण । असौ अनेकान्तानेकान्तः । ज्ञापनीयः उपदर्शनीय इत्यर्थः । अनेकान्तो नयापेक्षयाऽनेकान्तत्वधर्मवानेवेत्यनेकान्त एवेत्येकान्तः, प्रमाणापेक्षया. त्वनेकान्तत्वैकान्तत्वोभयधर्मवान् भवत्यपेक्षाभेदेनेत्यनेकान्त इति बोध्यम् , सप्तभङ्गीवाक्यात्मकोऽनेकान्त इति तस्यैकैको भङ्गो नयनिमित्तक एकैकधर्मप्रतिपादकत्वादेकान्तः, सम्पूर्ण तु सप्तभङ्गीवाक्यं प्रमाणप्रभवमनेकधर्मात्मकवस्तुप्रतिपादकत्वादनेकान्त इत्येवमनेकान्तानेकान्ततां भावयति-तथाहीति-एतदनन्तरं 'यथा' इति दृश्यम् । 'तथाहि' इति स्थाने 'यथाहि' इति पाठः । नित्यत्वेति-नित्यत्वाऽनित्यत्वाद्येकैकधर्मस्य यदवच्छेदकं निमित्तं तदवच्छेदेन, तदपेक्षयेत्यर्थः। उभयावच्छेदेनेति-नित्यत्वाऽनित्वयोर्याववच्छेदको तदुभयावच्छेदेन, तदुभयापेक्षयेत्यर्थः, प्रत्येकमेकैकभङ्गानामपि महावाक्यघटकतया नित्यानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकता समस्तीत्यतः पर्याप्यनुधावनम् । सकलेति-सकलनयवाक्यं प्रमाणवाक्यं भवति, तदवच्छेदेन तदपेक्षया । उक्तरूपं नित्यानित्यत्वादिसप्तधर्मात्मकत्वपर्याप्यधिकरणत्वरूपम् । अवतार्य तृतीयचरणं विवृणोति-एतदेवाहेति। 'एवम्' इत्यस्य 'उक्तरीत्या' इत्यर्थः। 'नियमोऽपीत्यत्र नियमशब्द एकान्तवाची, :अपिशब्दश्च समुच्चयार्थक इत्याशयेनाह-नियमश्च एकान्तश्चेति । 'समयाविरोधेन' इत्येतद् विवृणोति-समयस्येति-अस्यार्थःसिद्धान्तस्येति । क्रमेणानेकान्तप्रतिपादकमेकान्तप्रतिपादकं च सिद्धान्तवचनमुपदर्श अ. व्य. २१
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy