SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ૨૮ अनेकान्तव्यवस्थाप्रकरणम् । कथाया एवासम्भवात्, नहि चित्रं वस्तु नील - पीताद्यन्यतरतया कथ्यते चर्च्यते वा, एकतरजिज्ञासया केवलं तथा प्रतीयत इति, एतदाह"सीसमईविष्फारणमेत्तत्थोयं कओ समुल्लावो । ww इहरा कहामुहं चेव, णत्थि एवं ससमयम्मि || ” [ सम्मतिकाण्ड० ३, गाथा - २५] शिष्य बुद्धिविकासनमात्रार्थोऽयं कृतः प्रबन्धः, इतरथा कथैवैषा नास्ति स्वसिद्धान्ते - 'किमेते गुणा गुणिनो भिन्नाः ? आहोस्विदभिन्नाः ?” इति, अनेकान्तात्मकत्वात् सकलवस्तुनः । एवंरूपे च वस्तुतत्त्वे ऽन्यथारूपं तत् प्रतिपादयन्तो मिध्यावादिनो भवन्तीत्याह — रात्मके नापि भिन्नस्वभावं नाप्यभिन्नस्वभावं किन्त्वखण्डात्मकत्वात् तदुभयस्वभावकलितत्वेन चित्रस्वरूपे । 'भेदा ऽभेदादन्यतर' इति स्थाने 'भेदाभेदाद्यन्यतर' इति पाठो युक्तः, आदिपदादेकानेक नित्यानित्य- सामान्यविशेषादेरुपग्रहः, अन्यतरपदं चान्यतमपरम्, बहुषु ग्रन्थेषु प्राचामन्यतमपदे प्रयोक्तव्येऽन्यतरपदस्यैव प्रयोगो दृश्यत इत्यतोऽन्यतरत्वमनेकभेदावच्छिन्न प्रतियोगिताकभेदखरूपमेव द्वितयत्रितयादिसाधारणमभिमतं न तु भेदद्वयावच्छिन्न प्रतियोगिताकभेदरूपं वस्तुद्वयमात्रवृत्ति वा बोध्यम् । उक्तार्थदाययाह -नहीति । तथा नीलात्मना पीतात्मना वा । उक्तार्थे सम्मति-संवादमाह - एतदाहेति । सीसमई० इति - " शिष्यमतिविस्फारणमात्रार्थोऽयं कृतः समुल्लापः । इतरथा कथामुखं चैव नास्त्येवं स्वसमये" ॥ इति संस्कृतम् । विवृणोति - शिष्यबुद्धीति । कीदृशी कथा जैनसिद्धान्ते नास्तीत्यपेक्षायामाह - किमेत इति । कथमियं कथा नास्तीत्यपेक्षायाम् अनेकान्तेतियद्यपि 'किमेते गुणा गुणिनो भिन्नाः ? आहोस्विदभिन्नाः ?' इति न कथा कस्यापि वादिनः, ये गुण- गुणिनोर्भेदमभ्युपयन्ति तेषां 'गुणा गुणिनो भिन्ना भिन्नप्रत्ययावसेयत्वाद्' इत्यादिप्रतिपाद्यवयोपन्यासरूपा कथा, ये पुनस्तयोरभेदमुरकुर्वन्ति तेषां 'गुणा गुणिनोऽभिन्नास्तदात्मनोपलभ्यमानत्वाद्' इत्यादिप्रतिज्ञाद्यवयवकथनात्मिका सेति, तथाप्येकान्तवादिनां स्वस्वमतोपदर्शनलक्षणकथातः प्राकू कथाङ्गविप्रतिपत्तिरवश्यमुपन्यसनीयेति, सा चैवंविधेति कथाङ्गत्वात् कथात्वेन व्यवहियत
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy