________________
तत्त्वबोधिनीविवृतिविभूषितम् ३०७ "अणु-दुअणुएहिं दवे, आरद्धे तिअणुयं ति ववएसो। तत्तो य पुण विभत्तो, अणुत्ति जाओ अणू होइ ॥"
[सम्मतिकाण्ड० ३, गाथा-३९] : इत्यादिग्रन्थेन सम्मतौ तद्व्यवस्थापनात् । "एगत्तं च पुहुत्तं च, संखा संठाणमेव य।। संयोगो य विभागो य, पजवाणं तु लक्खणं ॥ १३ ॥” इति
. [उत्तराध्ययने अ० २८, गाथा-१३] पारमर्षे एकत्व-पृथक्त्वादीनां पर्यायलक्षणानां व्यक्त्या परिगणितानां परमाणुपर्यायव्यवस्थापकत्वात् , अत एव धर्मास्तिकायादीनामप्येकत्विकोत्पादमपेक्ष्य शुद्धपर्यायाणामिव परसंयोगजपर्यायाणामशुद्धानामपि सत्त्वं ध्रुवम् । "आगासाइआणं तिण्णं परपञ्चओऽणियमा"॥
[सम्मतिकाण्ड० ३, गाथा-३३] इत्यादिग्रन्थेन कृते पर्यायविभागे। ननु विभागजपर्यायः परमाण्वादिर्नास्त्येवेति तदन्तर्भावविचारणा काकदन्तपरीक्षावद् - विफलैवेत्याशय प्रतिक्षिपति-न चेति-अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः। असौ विभागजपर्यायः। प्रतिक्षेपहेतुमाह-अणु इति"अणु-ध्यणुकाभ्यां द्रव्ये आरब्धे त्र्यणुक इति व्यपदेशः । ततश्च पुनर्विभक्तोऽणुरिति जातोऽणुर्भवति" इति संस्कृतम् । तद्व्यवस्थापनात् विभागजपर्यायपरमाणुव्यवस्थापनात् । उत्तराध्ययनेऽपि परमाणुपर्यायव्यवस्थापनं समस्तीत्याह-एगत्तं चे० इति-“एकत्वं च पृथक्त्वं च संख्या संस्थानमेव च । संयोगश्च विभागश्च पर्यायाणां तु लक्षणम्” ॥ इति संस्कृतम् । अत एव विभागजपरमाण्वादिपर्यायसद्भावादेव । एकत्विकोत्पाद वैश्रसिकोत्पादम् । धर्मास्तिकायादीनां परसंयोगजपर्ययसद्भावे सम्मतिस्वारस्यं दर्शयति-आगासाइआणं० इति-"आकाशादिकानां त्रयाणां परप्रत्ययोऽनियमात्" इति संस्कृतम् । सम्मतिप्रतीके सम्मतिगाथैकदेशे। अस्याभिप्रायस्य विभागजादिपर्यायसद्भावविषयकाभिप्रायस्य । धर्मादिषूक्तदिशाऽशुद्धपर्यायसद्भाववदशुद्धस्वभावस्यापि सम्भवेन स्यात्काराङ्कितस्य तस्याप्युपदेशो न्याय्यः, स च