SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २७४ - अनेकान्तव्यवस्थाप्रकरणम् । काल्पनिकगुण-पर्यायभेदाभिधानपरमेव, स्वाभाविकतद्भेदाभिधानपरत्वे तु गुणार्थिकनयप्रसङ्गात् । न च--'नाण-दंसणट्ठयाए दुवे अहं' [ ] इत्याद्यागम एव गुणार्थिकप्रतिपादक इति शङ्काशेषो(लेशो)ऽपि विधेयः, अनेकीकरणस्य पर्यायार्थगोचरत्वादस्येति दिक् ॥ - इत्थं च यद् दिगम्बरैः परिभाष्यते-"गुण्यन्ते पृथक्रियन्ते द्रव्यं द्रव्या(न्तरा)चैस्ते गुणाः, तेषु चास्तित्वं १, वस्तुत्वं २, द्रव्यत्वं ३, प्रमेयत्वं ४, अगुरुलघुत्वं ५, प्रदेशत्वं ६, चेतनत्वं ७, अचेतनत्वं ८, मूर्तत्वम् ९, अमूर्तत्वं १० चेति द्रव्याणां दश सामान्यगुणाः, प्रत्येकमष्टावष्टौ सर्वेषाम् । ज्ञान-दर्शन-सुख-'वीर्य-स्पर्श-रस-गन्ध-वर्ण गुणाः लक्षणं पर्यायाणां तु उभयाश्रयिता भवेत्" ॥ इति संस्कृतम् । दव्व इति"द्रव्यनाम गुणनाम पर्यवनाम" इति संस्कृतम् । स्वाभाविकगुण-पर्यायभेदपरमेव कुतो नोक्तवचनद्वयमित्यपेक्षायामाह-स्वाभाविकेति । तद्भेदेति-गुण-पर्यायभेदेत्यर्थः । 'न च' इत्यस्य 'विधेयः' इत्यनेनान्वयः। नाण० इति-ज्ञान-दर्शनार्थतया द्वावहम्' इति संस्कृतम् , अनेनानेकीकरणं प्रतीयते, अनेकीकरणं च गुण इति गुणार्थिकनयप्रतिपादकोऽयं 'नाणदंसणठ्याए दुवे अहं' इत्यागमः । अनेकीकरणं पर्यायनयविषय इति पर्यायनय एवोक्तागमप्रतिपाद्य इति निषेधहेतुमुपदर्शयति-अनेकीकरणस्येति-एकस्यात्मनो ज्ञानदर्शनाश्रयतयाऽनेकरूपताज्ञापनस्येत्यर्थः। इत्थं च गुणानां पर्यायानतिरिक्तत्वे तत एव च गुणार्थिकनयाभावव्यवस्थितौ च। 'यद् दिगम्बरैः परिभाष्यते' इत्याद्यारभ्य ‘इति पर्यायाधिकारः' इत्यन्तं दिगम्बरमतप्रपञ्चनम् । तदेतत् स्वकपोलकल्पनामात्रम्' इत्यादिना च तत्खण्डनोपवर्णनम् । गुण्यन्त इत्यादिव्युत्पत्त्या द्रव्यस्य द्रव्यान्तरात् पृथक्करणनिमित्तं गुण इति गुणलक्षणं लभ्यते, न च तद् युक्तम् , अस्तित्व-वस्तुत्वादौ तदभावात् , किन्तु सहभाविधर्मत्वमेव गुणत्वम् । तत् तु व्युत्पत्तिनिमित्तमात्रमिति बोध्यम् । गुणाश्च सामान्यगुण-विशेषगुणभेदेन द्विविधाः ते क्रमेणोपदर्शयति-तेष चेति-गुणेषु मध्ये चेत्यर्थः। दश सामान्यगुणानुल्लिख्य दर्शयति-अस्तित्वमित्यादिना । अस्तित्वादिषु दशसु मध्ये प्रत्येक
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy