SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् । अपरमप्यस्य मतभेदं दर्शयन्नाह"एवं जीवं जीवो, संसारी पाणधारणाणुभवो ॥ सिद्धो पुण अजीवो, जीवणपरिणामरहिओ ति" ॥ [विशेषावश्यकभाष्यगाथा-२२५६] .. जीवति-. . 'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छास-निःश्वासमथान्यदायुः ॥ प्राणा दशैते भगवद्भिरक्तास्तेषां वियोगीकरणं च हिंसा" ॥ " इत्यादिवचनप्रसिद्धान् दशविधप्राणान् धरतीति शब्दार्थवशाज्जीवनेव-दशविधप्राणधारणं कुर्वन्नेवास्य नयस्य मतेन जीव उच्यते, स च नारकादिः संसार्येव भवति, सिद्धस्त्वेतन्नयमतेन 'जीवोऽसुमान प्राणी' इत्यादिशब्दैन व्यपदेश्यः, जीवनादिपरिणामरहित इति कृत्वा समभिरूढनयादित एवम्भूतनयस्य भेदान्तरोपदर्शकं भाष्यवचनमवतार्योल्लिखति-अपरमपीति। अस्य एवम्भूतनयस्य। एवं० इति “एवं जीवन् जीवः संसारी प्राणधारणानुभवः । सिद्धः पुनरजीवो जीवनपरिणामरहित इति" ॥ इति संस्कृतम् । विवृणोति-जीवतीति । जीवति-प्राणान् धरतीति व्युत्पत्त्या जीवन्-प्राणधारणं कुर्वन्नेव एवम्भूतनये जीवो भवति संसार्येव, न तु मुक्तः, स प्राणधारणाऽभावाद जीवशब्दव्यपदेशो न तु जीवादिशब्दव्यपदेश्य इत्येतावन्मात्रमत्र वक्तव्यं परिष्कृत्य दर्शयति-जीवतीति । प्राणानां दशविधत्वम्, अतोऽस्य 'दशविधप्राणान् धरति' इत्येवमर्थ कर्तुकामः प्राणानां दशविधत्वोपदर्शकं वचनं मध्य एव पठित्वा तत्प्रसिद्धत्वेन प्राणानां दशविधत्वमावेदयन्नाह-पञ्चन्द्रियाणीति । तेषां दशविधप्राणानाम्। शब्दार्थवशात् जीवशब्दव्युत्पत्तिलभ्यार्थवशात् । अस्य एवम्भूतस्य । स च जीवशब्दव्युत्पत्तिलभ्यार्थस्वरूपो जीवश्च । सिद्धस्तु मुक्तात्मा पुनः, अस्य 'न व्यपदेश्यः' इत्यनेनान्वयः, एतन्नयमतेन एवम्भूतनयमतेन । कथं न सिद्धो जीवादिशब्दैर्व्यपदेश्यः ? इत्यपेक्षायां तत्र हेतुमुपदर्शयति-जीवनादीति । शब्दार्थाभावात् जीवशब्दव्युत्पत्तिलभ्यप्राणधारणलक्षणार्थाभावात् । एवं सति सिद्धः केन
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy