________________
૨૮૮
अनेकान्तव्यवस्थाप्रकरणम् । - 'यथाऽभिधायकः शब्दस्तथाभिधेयं प्रतिपत्तव्यम्' इति प्रतिज्ञा, "तत्प्रत्ययत एव-ततः प्रत्ययसम्भूतेः' इति हेतुः, 'प्रदीपवत्, कुम्भवद्' इति दृष्टान्तः, विपर्यये बाधकमाह-'संशय' इत्यादि, इदमुक्तं भवति-प्रदीपशब्देन प्रकाशवानेवार्थोऽभिधीयते, अन्यथा संशयादयः प्रसज्येरन् , तथाहि-यदि दीपनक्रियाविकलोऽपि दीपस्तर्हि दीपशब्देन प्रकाशवानर्थोऽभिहितः ? किं वाऽप्रकाशकोऽप्यन्धोपलादिः ? इति संशयः, अन्धोपलादिरेवानेनाऽभिहितो न दीप इति विपर्ययः; तथा, 'दीप' इत्युक्तेऽप्यन्धोपलादेः, अन्धोपलादावप्युक्ते दीपस्य च प्रत्ययात् पदार्थानामेकत्वं साङ्कयं वा स्यादेव प्रतिप्रसङ्गोऽपीति शब्दवशादेवाभिधेयम् , अभिधेयवशाच्च शब्द इति प्रतिपत्तव्यम् ।
समभिरूढनयं शिक्षयन्नाह"सहपरिणामओ जइ घड-कुडसहत्थभेयपडिवत्ती ॥ तो णिच्चेट्ठो वि कहं, घडसहत्थो घडोऽभिमओ ?”
[विशेषावश्यकभाष्यगाथा-२२५४] यदि शब्दपरिणामतः-शब्दभेदात्, घट-कुट-कुम्भादिपर्यायशब्दानामर्थभेदप्रतिपत्तिः, ततः-तर्हि, निश्चेष्टोऽपि घटशब्दाभिधेयोऽर्थः रातिप्रसङ्गात् ॥ इति संस्कृतम् । विवृणोति-यथेति । 'तत्प्रत्ययतः' इत्यस्य विवरणम्-ततः 'प्रत्ययसम्भूतेः' इति विपर्यये बाधकमाह प्रकृतसाध्याऽभाववति हेतुसत्त्वस्य बाधकं वक्ति । अन्यथा प्रदीपशब्देन प्रकाशवतोऽर्थस्यानभिधाने । संशयादिप्रसञ्जनमेव भावयति-तथाहीत्यादिना । दीपनक्रियाविकलोऽपि प्रकाशनक्रियारहितोऽपि । अनेन दीपशब्देन 'अन्धोपलादेः' इत्यस्य 'प्रत्ययाद्' इत्यनेनान्वयः ॥
समभिरूढं यथा शिक्षयत्येवम्भूतस्तथा तच्छिक्षोपदर्शकं भाष्यवचनमवतार्योल्लिखति-समभिरूढनयमिति । सद्द० इति-"शब्दपरिणामतो यदि घट-कुटशब्दार्थभेदप्रतिपत्तिः । तन्निश्चेष्टोऽपि कथं घट-शब्दार्थो घटोऽभिमतः ? ॥” इति