________________
अनेकान्तव्यवस्थाप्रकरणम् ।
अयमस्मिन् विषयेऽन्यकारकसम्बद्धे ऽन्यकारकानन्वयित्वाभ्युपगमपरं शब्दं प्रति प्रत्यवतिष्ठते— 'नन्वेवमन्यपदार्थे ऽन्यपदार्थानन्वयित्वमेव लाघवादभ्युपगम्यताम्' इति, नन्वेवं कुलाले 'घटकारः' इति प्रयोगोऽनुपपन्नः स्यादिति चेत् ? बाह्यघटाभिप्रायेणानुपपन्नः स्यादेव, भावघटाभिप्रायेण तु न स्यात्, घटपरिणामित्वान्मृदादिद्रव्यमेव हि घटकारशब्दार्थः, घटाऽऽकाराध्यवसायादिपरिणामित्वात्, कुलालादिस्तु तत्कार एव, आभिमानिकसम्बन्धेन केवलं बाह्यघटादिकारित्वं कुलालादावभ्युपयन्ति व्यवहारमूढाः, तदिदमभिप्रेत्यावोचाम
१८२
"मृदादिभावैः परिणामवद्भिः, कुम्भादिभावाञ्जनितानवेत्य । तेषामगृह्णन् परिणामिभावं बाह्यं करोमीत्यभिमन्यते कः ? ॥”
नयः, अस्य 'प्रत्यवतिष्ठते' इत्यनेनान्वयः । कीदृशं तस्य प्रत्यवस्थानमित्यपेक्षायामाहनन्विति - कोमलामन्त्रणे । एवमिति - अन्यकारकसम्बद्धेऽन्यकारकानन्वयित्वं यद्यभ्युपगम्यते ततो वरं लाघवादन्यपदार्थेऽनन्वयित्वमेवाभ्युपगम्यतामित्यर्थः । अत्र शब्दनयवादी शङ्कते - नन्वेवमिति । एवम् अन्यपदार्थेऽन्यपदार्थानन्वयित्वा - भ्युपगमे । कुलाले कुलालशब्दव्युत्पत्तिलभ्येऽर्थे । अष्टापत्तिमेव समाधानमाहबाह्येति । न स्यात् 'घटकार :' इति प्रयोगोऽनुपपन्नो न भवेत् । बाह्यघटाभिप्रायेणोक्तप्रयोगस्यानुपपन्नत्वं भावघटाभिप्रायेण तस्यानुपपन्नत्वभावं च भावयति'घटपरिणामित्वात् ' बाह्यघटरूपपरिणामशालित्वात् एवकारेण कुलालशब्दार्थत्वव्यवच्छेदः । घटकाराध्यवसायादिलक्षणभावघटाभिप्रायेण तु कुलालस्य 'घटकार' - शब्दात्वर्थमुपदर्शयति-घटाकारेति - घटाकाराध्यवसायादिलक्षणभावघटपरिणामशालित्वात् कुलालादिः पुनस्तथा भूतभावघटकार एवेत्यर्थः, तर्हि बाह्यघटादिकारित्वं कथं कुलालादावभ्युपगच्छन्ति लौकिका इत्यपेक्षायामाह - आभिमानिकसम्बन्धेनेति- - घटकारः कुलाल इत्यभिमानमेव लोकानां न तु वस्तुगत्या बाह्यघटकारित्वं कुलालस्येत्यभिसन्धिः ॥
उक्ताभिप्रायोपोद्बलकं ग्रन्थान्तरे स्वोक्तं वचनं संवादकतयोपदर्शयति - तदिदमिति - परिणामवद्भिर्मृदादिभावैर्जनितान् घटादिभावानवेल तेषां परिणामभावम