________________
१३
यसम्यगबोधकत्वेन तद्व्याख्यानस्य समीचीनत्वं तत एव च प्रशंसनीयत्वं सुप्रतिपदम्, विषयानुक्रमणिकया च मूलतद्वयाख्यानयोस्स्याद्वादविषयाणामेकान्तवादविषयाणां च समर्थननिरसनप्रकाराणां तत्साक्षितयोपनिबद्धानां तत्तद्ग्रन्थवचनानामवबोधनं कृतमस्ति व्याख्यानकर्त्रा च स्वनिर्मितविषयानुक्रमणिकात्मकेन पद्यनिचयेन तत्सर्वं स्फुटी - कृतमिति तत्पर्यालोचनं पिष्टपेषणन्यायविषयतां नातिक्रामति, किन्तु जिनवचनाम्बुध्येकदेशातिगम्भीरप्रदेशावगाहनपटिष्ठमनीषायानपात्र निरन्तरगमनागमनव्यापारपरा
यणवृद्धाचार्यपरम्परायातस्य तीर्थान्तरीयायातस्यैतद्भन्थीयविचारनिकरस्य जिनवच - नाम्बुधिसमुच्छलिततरङ्गैकदेशप्रदेशत्वमेव, न तु स्वकपोलकल्पनामात्रविजृम्भितत्वमित्येतत्प्रकटयितुमेव तत्र तत्र तत्तन्मतविषयनिरूपणे 'तत्त्वार्थसूत्र - तद्भाष्यगौतमसूत्र - भाषारहस्य- सम्मतितर्क- रत्नाकर आवश्यक निर्युक्ति-अ ध्यात्मोपनिषद् - विशेषावश्यकभाष्य-वेद् गीता - अन्ययोगव्यवच्छेदद्वात्रिंशिका आगम- वाक्यपदीय - वशिष्ठवाक्य छान्दोग्योपनिषद-पातञ्जलयोगदर्शन-वार्त्तिक- आचाराङ्ग साङ्ख्यकारिका-श्लोकवार्त्तिकसौगतवचन-आचाराङ्गटीका, द्रव्यसङ्ग्रह प्रशमरति उत्तराध्ययनअनुयोगद्वार भगवतीसूत्र - तार्किकवचन-नवतत्त्व-प्रवचनसारोद्धारपञ्चाशकग्रन्थसंवादो दर्शितो मूलकृता, स च संवादोऽयत्नोपनत एव मूलसमानविषयके तद्वयाख्याने यथा गङ्गाप्रवाहपातो रथ्योदकं पवित्रयति तथाऽनेकान्तवादः सकलवस्तुव्यापको लोकव्यवहारान्यथानुपपत्त्या स्वस्याभ्युपगमविशेषान्यथानुपपत्त्या च परैरपि हृदयेनाभ्युपगम्यमानः स्वसङ्गतिमितमस्मन्निर्मितमनेकान्तव्यवस्थाप्रकरणं पवित्रयतु, अहं पुनर्भवभूतिप्रभृतिविषयसुखविमुखो भवान्तरेप्यनेकान्तविषयां ध्रुवां मतिमेवैतद्रन्थ कर्णतोऽभिलषामि परेऽप्येतादृशा एव भवन्त्वेतदभिप्रायवतोपाध्यायेन मूलान्ते त्रयोदशभिः पद्यैरनेकान्तवादस्तुतिर्विहिता, अस्यास्सम्यगर्थप्रपञ्चो दर्शितो व्याख्यानकर्त्रा लावण्यसूरिणा,
अयं च ग्रन्थो नयसमूहमयस्य जिनवचनमहोदधेरुद्गतानि सर्वाणि न्यायादिदर्शनानीत्या वेदनायैव तत्तन्नयविचारपरिसमाप्तौ -
‘दर्शितेयं यथाशास्त्रं, नैगमस्य नयस्य दिक् । कणाद दृष्टिहेतुः, श्रीयशोविजयवाचकैः ॥ १ ॥ दर्शितेयं यथाशास्त्रं, सङ्ग्रहस्य नयस्य द्ग् ि। वेदान्तराद्धान्तहेतु, र्यशोविजयवाचकैः ॥ २ ॥ दर्शितेयं यथाशास्त्रं, व्यवहारनयस्य बिक् । सांख्यराद्धान्तहेतुः, श्रीयशोविजयवाचकैः ॥ ३ ॥