SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ११८ ] [ तत्त्वबोधिनीविवृतिविभूषितम् कत्वस्य प्रमाणतो व्यवस्थितेः, अन्यत्रापि कार्यकारणभावेऽन्वयव्यतिरेकयोरेव नियामकत्वात् । किञ्च, परैरपि मुद्गरादीनां विरोधित्वं व्यवस्थापयद्भिः ‘गलेपादुका' न्यायेन नाशकारणत्वमवश्यमभ्युपेयम् , तथाहि-न ते कणभुगादय इत्र कार्यकारणभावात् पृथग्विरोधाख्यं सम्बन्धमभ्युपेयं(पयन्ति), किन्तु घटक्षणो मुद्रादिकं विनाशकारणत्वेन प्रसिद्धमपेक्ष्य समानक्षणान्तरोत्पादनेऽसमर्थ क्षणान्तरमुत्पादयति, तदपि तदपेक्षमपरमसमथेक्षणान्तरम् , तदप्युत्तरं तदपेक्षमसमर्थतमं यावद्घटसन्ततेर्निवृत्तिः, एवमन्यत्रापि विरोधित्वं प्रतिपादयन्ति, तथा चाऽसमर्थक्षणान्तरजनकस्य क्षणस्य मुद्गरादेः कश्चित् सामर्थ्य विधातोऽभ्युपगन्तव्य एव, अन्यथा समर्थयते, अन्यत्रापि कार्यकारणभावेऽन्वय-व्यतिरेकावेव नियामको, तौ च प्रकृतेऽप्यविकलावित्याह-- अन्यत्रापीति। बौद्धरपि स्वाभ्युपगमबलादेव नाशकारणत्वं मुद्गरादेरभ्युपेयमित्याह-किञ्चेति । परैरपि बौद्धैरपि । विरोधित्वं समानसन्ततिजननविरोधित्वम् । मुद्गरादीनां बौद्धर्नाशकारणत्वस्यावश्याभ्युपेयत्वं भावयति-तथाहीत्यादिना। नञः 'अभ्युपयन्ति' इत्येननान्वयः, ते बौद्धाः, नाभ्युपयन्ति नाभ्युपगच्छन्ति । तर्हि कीदृशं तेऽभ्युपयन्तीति पृच्छति-किन्त्वितिविनाशकारणत्वेन प्रसिद्धं मुद्गरादिकमपेक्ष्य घटक्षणः समानक्षणान्तरोत्पादनेऽसमर्थक्षणान्तरमुत्पादयतीत्यन्वयः । तदपि समानक्षणान्तरोत्पादनेऽसमर्थ क्षणान्तरमपि । तदपेक्षं मुद्गराद्यपेक्षं सत् 'असमर्थक्षणान्तरम्' इत्यनन्तरम्'उत्पादयति' इत्यस्यानुकर्षण सम्बन्धः, एवमग्रेऽपि । एवं सति यत् सिद्धं तदाह-तथा चेतिघटस्य मुद्गरादिकमपेक्ष्याऽसमर्थक्षणान्तरजनकत्वसिद्धौ चेत्यर्थः । असमर्थक्षणान्तरजनकस्य घटादिरूपक्षणस्य कश्चित् सामर्थ्य विघातो मुद्गरादेरभ्युपगन्तव्य एवेत्यन्वयः, 'मुद्गरादेः' इति पञ्चम्यन्तम् ।
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy