SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] यासिद्धेः । न च देवदत्तादेः सहभाव्यनेक विशेषणावच्छिन्नत्वादेकत्वमविरुद्धम्, तदभावनियतभावलक्षणस्य विरोधस्य सहसम्भविनामभावात् प्रकृते तु प्रागुक्त विरोधशालिविशेषणद्वय विशिष्टस्य नैकत्वं न्याय्यमिति वाच्यम्, एकप्रतिभासवला देवैकत्वसिद्धेः, अन्यथा नीलसंवेदनस्यापि स्थूलाकारावभासिनो विरुद्ध दिक्सम्ब न्धात् प्रतिपरमाणु भेदप्रसक्तेः, तदवयवानामपि दिषट्कयोगाद् भेदापत्तितोऽनवस्थाप्रसक्तेः प्रतिभासविरतिलक्षणा शून्यता स्यादिति असहभाविनोस्तु पूर्वोत्तरकालयोरे काभावनियतापरभावलक्षणविरोधसद्भावादिति छत्र- कुण्डलाद्यवच्छिन्नस्य देवदत्तादेरैक्यस्य सम्भवेऽपि पूर्वोत्तरकालावच्छिन्नस्य नैक्यसम्भव इति तद्ग्राहिप्रत्यभिज्ञानस्याप्रामाण्यं स्यादेवेत्याशङ्कय प्रतिक्षिपति-न चेतिअस्य वाच्यम्' इत्यनेन योगः । प्रकृते तु ' सोऽयं घटः ' इत्यादि प्रत्यभिज्ञानस्थले पुनः । प्रागुक्तेति तदद्भावनियतभावलक्षणविरोधशालिपूर्वोत्तरकाललक्षण विशेषणद्वय विशिष्टस्य घटादेरेकत्वं न न्यायानुगतमित्यर्थः । भवतूक्तलक्षणो विरोधः पूर्वोत्तरकालयोरेवमपि तद्विशिष्टस्यैकस्य प्रतिभासो भवति प्रत्यभिज्ञायामिति तादृशैकप्रतिभासवलात् पूर्वोत्तरकाल विशिष्टस्य घटस्यैकत्वं स्वीकरणीयमिति निषेधहेतुमुपर्शयति- एक प्रतिभासेति वस्तु यद्यनेकं स्यादनेकप्रतिभासो भवेत्, यादृशं वस्तु तादृशस्तस्य प्रतीतौ प्रतिभास इति न भवति चानेकप्रतिभासः, किन्त्वेकप्रतिभास इति तद्वलादेकत्वस्यैव सिद्धेरित्यर्थः । अन्यथा एक प्रतिभासेऽप्येकत्वमनभ्युपगम्यानेकत्वाभ्युपगमे । नीलसंवेदनस्यापि स्थूलाकारावभासिनः प्रतिभासविरतिलक्षणा शून्यता स्यादित्यन्वयः, कथं स्थूलनीलाकारावभासिनो नीलसंवेदनस्य नीलप्रतिभासे विद्यमाने प्रतिभासविरति लक्षणा शून्यतेत्यपेक्षायां तत्र हेतुमाह - विरुद्धेति 6 [ ९३ -
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy