SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् । [ ८५ स्वभावस्य विनश्वरत्वेऽन्यानपेक्षणमात्रेण निर्हेतुको नाश उच्यते " ] इति । स्थितमेतत्-प्रत्यक्षतोऽनुमानतश्च सर्वभावानां क्षणिकत्वमिति ।। एतच द्रव्यार्थिकनिक्षेपविचारे सम्मतावेव यथा दूषितं तथैव किश्चित् संक्षिप्य विविच्य लिख्यते, तत्र क्षणक्षयित्वे यदध्यक्ष प्रमाणमुक्तम् , तदसत्-स्थिर-स्थूररूपाणामेव घटादीनां प्रतिभासात् , न चान्यादृग्भूतार्थप्रतिभासोऽन्यादृग्भूतार्थव्यवस्थापकोऽतिप्रसङ्गात् , न च सदृशापरापरोत्पत्तिदोषादत्र यथानुभवं न विकल्पोत्पत्तिः, नीलादिष्यप्येवमनाश्वासप्रसङ्गात् , यथा हि परमार्थतोऽसदृशा भावानां प्रत्यक्षाऽनुमानाभ्यां सिद्धमित्युपसंहरति-स्थितमेतदिति । एतावतोपपादितस्य बौद्धमतस्य खण्डनं सम्मत्युपदर्शितमेव संक्षेपतोऽत्राभिधीयत इत्याह-एतच्चेति-बौद्धाभिमतं सर्वभावानां क्षणक्षयित्वं चेत्यर्थः । प्रत्यक्षे स्थिरस्थूलरूपतयैव घटादीनां प्रतिभासात् क्षणक्षयित्वेनाऽप्रतिभासात्, प्रतिभासानुसारेण प्रत्यक्षविषयव्यवस्था भवति, न तु प्रतिभासोऽन्यादृशोऽन्याशस्य वस्तुनो व्यवस्थापको भवति, तथा सति घटप्रतिभासिप्रत्यक्षतः पटादेरपि सिद्धिः स्यादिति न प्रत्यक्षप्रमाणतः क्षणक्षयित्वसिद्धिरित्याह-तदसदिति । यदि च क्षणक्षयिभावस्वरूपं निर्विकल्पक प्रत्यक्ष प्रतिभासत एव, सदृशाऽपरापरोत्पत्तिदोषात् तु तदनुसारिक्षणक्षयनिश्चयस्वरूपविकल्पोत्पत्तिर्न भवति, किन्तु स्थैर्यविकल्प एव भवति, तर्हि नीलविकल्पोऽपि नीलानुभवान्न जातः, किन्तु नीलविकल्पात् पूर्वमन्यप्रतिभासस्येव निर्विकल्पकम् , दोषवशात् तु नीलप्रतिभासिविकल्प इत्यस्यापि कल्पयितुं शक्यत्वेन न नीलादिप्रतिभासिविकल्पतो नीलादिवस्तुव्यवस्थितिरपि भवेदित्याह-न चेति-अस्य 'न विकल्पोत्पत्तिः' इत्यनन्तरमन्वयः ।
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy